________________
मोबान
प्रकरणम् ॥ ॥८९॥
SHRUADHUN
मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतैजसाद्याः शुभप्रकृतयो बन्धमायान्ति, तासामपि तथास्वाभाव्याज्जघन्यतोऽपि द्विस्थानक एव रसो बन्धमायाति नैकस्थानक इति ध्येयम् । ननूत्कृष्टस्थितिमात्र सक्क्लेशोत्कर्षेण भवति, ततो येरेवाऽध्यवसायैः शुभप्रकृतीनामुत्कृष्टा स्थितिर्भवति तैरेवैकग्थानकोऽपि रसः किं न स्यादिति चेत्, उच्यते-इह हि प्रथमस्थितेरारभ्य समयसमयवद्ध्या संख्येयाः स्थितिविशेषा भवन्ति, एकैकस्यां च स्थितावसंख्येया रसस्पर्धकसङ्घातविशेषाः, तत उत्कृष्टस्थितौ वध्यमानायां प्रतिस्थितिविशेषमसंख्यया ये रसस्पर्धकसबातविशेषास्ते तावन्तो द्विस्थानकरसस्यैव घटन्ते नैकस्थानकस्येति न शुभप्रकृतानामुत्कृष्टस्थितिबन्धेऽप्येकस्थानकरसबन्धः। उक्तंच-"(पंचसंग्रह)उक्कोसठिईअज्झव-साणेहिं एगठाणिओ होइ।। सुभिआण तं न जठिई, असंखगुणिआ उ अणुभागा॥३-६४ ।। इति" । एवं स्थिते देशघातिनामवधिज्ञानावरणादीनां सर्वघातिरसस्पर्धकेषु विशुद्धाध्यवसायतो देशघातितया परिणमनेन निहतेषु, देशघातिरसस्पर्धकेषु चातिस्निग्धेष्वल्परसीकृतेषु, तदन्तर्गतकतिपयरसस्पर्धकभागस्योदयावलिकाप्रविष्टस्य क्षये, शेषस्य च विपाकोदयविष्कम्भलक्षणे उपशमे, जीवस्यावधिमनःपर्यायज्ञानचक्षु दर्शनादयो गुणाः क्षायोपशामकाः प्रादुर्भवन्ति । तदुक्तम्-"णिहएसु सव्वघाई-रसेसु फडेसु देसघाईणं ॥जीवस्स गुणा जाय-ति ओहीमणचरकुमाईआ॥३-३०॥" निहतेषु देशघातितया परिणमितेषु ॥ तदावधिज्ञानावरणादीनां कतिपयदेशघातिरसस्पर्धकक्षयोपशमात् कतिपयदेशघातिरसस्पर्धकानां चोदयात् क्षयोपशमानुविद्ध औदयिको भावः प्रवर्तते, अत एवोदीयमानाशक्षयोपशमवृद्ध्या वर्धमानावधिज्ञानोपपत्तिः । यदा चावधिज्ञानाऽऽवरणादीनां सर्वघातीनि रसस्पर्घकानि विपाकोदयमागतानि भवन्ति तदा तद्विषय औदयिको भावः केवलः प्रवर्तते । केबलमवपिज्ञानावरणीयसर्वघातिरसस्पर्धकानां देशघातितया
शुभप्रकृतीनां | नकस्थानर
सवत्त्वमित्युपपादन तत्संवादिपंचसङ्ग्रहग्रन्थपाठः, क्षयोपशमविचारश्च ॥