________________
ShrMatiavr Jain ArachanaKendra
सविवरणं भीवाना
प्रकरणम्॥ ॥८ ॥
| कृता या तिसृष्वपि शब्द एव केवलोऽसत्यमृषा ॥ एताः सभेदलक्षण-सोदाहरणा यथा सूत्रे ॥] इति, औदारिकादिशरीरवता जीवेन | मुक्ता भाषा समस्तमपि लोकं व्यामोति, तेन द्वादशभ्योऽपि योजनेभ्यः परतो गतिरस्त्येव शब्दद्रव्याणां, यथा स्वविषयद्वादशयोजनाभ्यन्तरे नैरन्तर्येण तद्वासनासामर्थ्य, तथा बहिरपि केषाश्चिच्छब्दद्रव्याणां कृत्स्नलोकव्याप्तानां,चतुर्दशरज्वात्मका क्षेत्रलोकश्चतुर्भिस्समयैः कस्यचित्सम्बन्धिन्या भाषया पूर्यते, लोकस्य पर्यन्तवय॑सङ्ख्येयभागे च समस्तलोकव्यापिन्या भाषाया अपि चरमान्तोऽसंख्येयभागो भवति, तदिदमाह शङ्कासमाधानाभ्यां नियुक्तिकारः-"कईहिं समएहिं लोगो, भासाए निरंतरं तु होइ फुडो । लोगस्स य कइभाए, कइभाओ होइ भासाए ॥३७८|| चउहि समयेहिं लोगो, भासाए निरंतर तु होइ फुडो । लोगस्स य चरिमंते, चरिमंतो होइ भासाए ॥३७९॥"[कतिभिः समयलोंको भाषया निरन्तरं तु भवति स्फुटः, ॥ लोकस्य च कतिभागे कतिभागो भवति भाषायाः॥चतुर्भिः समयैर्लोको,भाषया निरन्तरं तु भवति स्फुटः।। लोकस्य च चरमान्ते चरमान्तो भवति भाषायाः] इति, सर्वस्यापि वक्तुर्भाषा न लोकं व्यामोति किन्तु कस्यचिदेव, तथा हि-वक्ता द्विविधस्तत्रैक: उरग्क्षतायुपेतत्वेन मन्दप्रयत्नो वक्ता सर्वाण्यपि भाषाद्रव्याण्यभिन्नानि निसृजति, अन्यस्तु नीरोगतादिगुणस्तीव्रप्रयत्नो वक्ता भाषाद्रव्याणि आदाननिसर्गप्रयस्नाभ्यां सूक्ष्मखण्डीकृत्य मुञ्चति,अनन्तभापाद्रव्यस्कन्धाश्रयभूतक्षेत्रविशेषरूपावगाहना वर्गणा असंख्येया गत्वा ततो मन्दप्रयत्नवक्तृनिसृष्टान्यभिन्नानि भाषाद्रव्याणि भिद्यन्ते, संख्येयानि च योजनानि गत्वा ध्वंसन्ते, उक्तञ्चप्रज्ञापनायां भाषापदे 'जाई अभिनाई निसिरइ, ताई असंखेजाओ ओगाहणाओ गंता भेयमावअंति, संखिजाई जोयणाई गंता विद्धंसमागच्छंति" यानितु महाप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वात् बहुत्वाच्चानन्तगुणवृद्धया वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नु
(योजितः
पाठः) कस्यचिद्धचतुर्भाषा चतुर्मिस्समयैर्लोकं व्यामोति न सा सर्वस्य तथेत्यस्योपपादकंनियुक्तिवचनं तथा प्रज्ञापनाबचनश्च ॥८ ॥
Fox PW
And Penciale Only