SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (योजितः पाठः) देहस्पर्शनेन्द्रिययोरे वोत्सेधाङ्ग COURAGHATAR किञ्च देहस्यात्मभूतान्यपीन्द्रियाणि सर्वाणि नोच्छ्याङ्गुलेन मीयन्ते यदा तदा कैव कथा तद्विषयाणामुच्छ्याङ्गुलमेयत्वस्य, यतः स्पर्शनेन्द्रियमेकमुच्छ्याङ्गुलेन मीयते शेषाणि तु द्रव्येन्द्रियाण्यात्माङ्गुलेनैव मीयन्ते, त्रिगब्यूतादिमानानां युगलधर्मिणां जिहन्द्रियादिमानस्योच्छ्याङ्गुलेन ग्रहणे क्षुरप्राकारतयोक्तस्य जिह्वेन्द्रियस्य विशालदेहानुसारित्वेन विशालमुखगतत्वेन विशालस्याङ्गुलपृथक्त्वलक्षणो विस्तारो गृह्येत, एवञ्चात्यल्पतया सर्वामपि जिह्वां न व्याप्नुयात्, तदव्याप्तौ च सर्वया जिह्वया रसवेदनलक्षणो व्यवहारो न घटेत, तस्मादात्मागुलेनैव जिह्वादिमानं घटत इति, तदुक्तं भाष्यकृता "इंदियमाणेवि तयं, भयणिज्जं जं तिगाउआईणाजिभिदियाइमाणं,संववहारे विरुज्झेज्जा।।३४३।।"[इन्द्रियमानेऽपि तद् भजनीयं यत् त्रिगव्यूतादीनाम् । जिह्वेन्द्रियादिमानं संम्यवहारे विरुध्येता।]इति,चक्रवर्तिभरतनगर्यादिषु भेर्यादिशब्दश्रवणव्यवहारस्य युगलधर्मिणां रसवेदनव्यवहारस्य चाभावप्रसङ्गेनेन्द्रियविषयपरिमाणस्येन्द्रियपरिमाणस्य नोच्छ्याङ्गुलमेयत्वं किन्त्वात्माङ्गुलमेयत्वमेवेति व्यवस्थितौ "उस्सेहपमाणओ मिणे देह" इत्यत्र देहशब्देन देहमानमेव पारिशेष्याद् गृह्यते, किञ्च परस्येन्द्रियतद्विषयपरिमाणयोरुच्छ्याङ्गुलमितत्वेापत्तिरेव प्रमाणं न त्वागमवचनं, आगमे तु "इचेएणं उस्सेहंगुलप्पमाणेणं नेरइअ-तिरिक्खजोणिय-मणुस्स-देवाणं सरीरोगाहणाओ मिअंति" [इत्येतेनोच्छ्याङ्गुलप्रमाणेन नैरयिकतिर्यग्योनिकमनुष्यदेवानां शरीरावगाहना मीयन्ते ] इत्यस्मिन् शरीरावगाहनवोच्छ्याङ्गुलमयत्वेनोक्ता न त्विन्द्रियविषयपरिमाण, ततस्तदात्माङ्गुलेनैवेति, तदाह भाष्यकृत्-" तणुमाणं चिय तेणं, हविज भणियं सुए वितं चेव ॥ एएण देहमाणाई, नारयाईण मिजंति ॥ ३४४ ॥" [तनुमानमेव तेन, भवेद् भणितं श्रुतेऽपि तदेव ॥ एतेन देहमानानि,नारकादीनां मीयन्ते ॥ इति । ननु पुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्य अर्वाग्भागवर्ति કનકનનનનનનનનન लमेयत्वमन्येन्द्रियतद्विषयाणामात्माङ्ग लभयत्वं व्यवस्थापितम् ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy