________________
Shri Mahavir Jain Aradhana Kendra
/www.khatirth.org
गोवा दिवस्त्वेकदेशग्राहित्वात्, देशग्रहणद्वारा तदभिन्नवस्तुग्रहणं च संशयेऽपि तुल्यं, अथ निर्णयेन तथाभूत एवार्थी गृहात इति तज्ज्ञानं, संशयादीनां स्वतथाभूतार्थग्राहित्वान्न ज्ञानत्वमिति चेत्, न, अर्थग्राहित्वेनैव तेषां ज्ञानत्वाद्, विशेषाभावस्य सामान्याभावनियतत्वात्सम्यग्दृष्टिसम्बन्धासादितनैश्वयिकज्ञानत्वरूपस्य मतिज्ञानसामान्यस्यैवात्र निरूपयितुमुपक्रान्तत्वात् ॥ न चैवमवग्रहेहापायधारणाः संशय विपर्ययानध्यवसायाचेति मतिज्ञानस्य सप्तभेदप्रसङ्ग इति वाच्यम् । अनध्यवसायस्याऽवग्रहे, संशयस्येहायां, विपर्यासस्य चापाये व्यक्तमन्तर्भावात् इत्थं चैतदवश्यमङ्गीकर्त्तव्यम्, अन्यथा संशयादिकाले सम्यग्दृशामज्ञानित्वप्रसङ्गः एवञ्च - " सम्मदिट्ठी णं भंते! किं नाणी अन्नाणी १, गोयमा ! नाणी नो अन्नाणी" इत्याद्यागमविरोधः, न चानेन सूत्रेण सम्यग्दर्शन सामानाधिकरण्येनैव ज्ञानित्वप्रतिपादनान्न दोष इति वाच्यम् ॥ च्युतसम्यक्त्वस्य मिध्यात्वं प्राप्तस्य तत्सामानाधिकरण्येन ज्ञानसत्त्वाद् ज्ञानित्वप्रसङ्गः । "मिच्छद्दिड्डी णं भंते ! नाणी अन्नाणी १, गोयमा ! नो नाणी नियमा अन्नाणी" इत्याद्यागमविरोधस्य दुरुद्धरत्वाद्, ज्ञानस्य कालतः सम्यक्त्वनियतत्वप्रतिपादनात्संशयादीनामपि ज्ञानत्वमेव प्रामाणिकं, तदिदमभिप्रेत्याह - " तहवि णाम । अब्भ्रुवगन्तुं भण्णइ, नाणं चित्र संसयाईआ ॥ ३६४ ॥ वत्थुस्स देसगमगत्त-भावओ परमयप्पमाणं व ।। किह वत्थुदेसविष्णाण हेयवो सुणसु तं वोच्छम् ॥३१५॥ इह वत्थुमत्थवयणाइ - पजवाणंत सत्तिसम्पन्नं ॥ तस्सगदेसविच्छेयकारिणो संसयाईआ || ३१६|| अहवा ण सव्वधम्मा-वभासया तो न नाणमिट्ठन्ते ॥ नणु निण्णओ वि, तदेस मेत्तगाहित्ति अमाणं ॥३१७॥ " [ तथापि नाम ॥ अभ्युपगम्य भण्यते, ज्ञानमेव संशयादयः ।। वस्तुनो देश गमकत्वभावतः परमतप्रमाणमिव ॥ कथं वस्तुदेशविज्ञानहेतवः, श्रृणु तद् वक्ष्ये ॥ इह वस्त्वर्थवचनादिपर्यायानन्तशक्तिसम्पन्नम् ॥ तस्यैकदेशविच्छेदकारिणः संशयादयः ॥
For Print And Personal Use Only
Acharya Shal Kalassagarsun Gyanmandir
॥ मतिज्ञान
प्ररूपणप्रस
ङ्गे परोक्तारेका परिहारेण वस्तु
व्यवस्था
पनम् ॥