________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं
श्रीज्ञाना
र्णवप्रकरणम् ॥ ॥ ६७ ॥
www.khatirth.org
रन्यथा व्यवहारोच्छेदप्रसङ्गात्, न खलु धूमबलाकादेः सकाशात्सम्यग्दहनजलादौ निश्चितेऽपि मुखेन तनिश्चयं ब्रुवतामपि सर्वषां श्रमातॄणां चेतसि शङ्कामात्र विनिवर्त्तनेन च ते सर्वेऽपि निश्चितं वस्तु न प्राप्नुवन्तीति । वस्तुतः सन्दिग्धस्थले सन्देहाननुविद्धस्वरूपो निश्चय एव वस्तुप्रापको ज्ञानप्रामाण्यसंशयाद्विषयसंशयस्तु भिन्नोऽप्यन्तर्गत एवेति, न तत्र निष्कम्पप्रवृत्तिजनकताव - च्छेदकनिश्चयत्वाभावोऽपि सुवचः, ईहायाश्च संशयत्वं प्रागेव निराकृतं निश्चयादन्यज्ञानमात्रस्यैव संशयत्वेनाज्ञानताभ्युपगमे निश्वयोपादानलक्षणस्यापि सर्वथाऽज्ञानत्वप्रसङ्गे निश्चयस्याप्यज्ञानतापत्तिः, 'न ह्यविशिष्टात् कारणात्कार्योत्पत्तिः' इति परधर्ममिश्र च निश्रितं यद्यत्र संगृह्यते तदा तत्र तटस्थतयैव परधर्म मिश्रितत्वं विवक्षणीयं यथा गौरवायं केवलमश्व इव प्रतिभातीति न त्वत्यन्तोपरागेणेति, न, तद्यज्ञानं परधर्माणामाशंकामात्रमेव विमिश्रणम्, अनिश्रिते तु वस्त्वभावस्यैवाशंका न तु परधर्माणामित्यस्याप्ययमेवार्थः, उक्तोदाहरणे इवार्थसादृश्यस्यैव भानात्, अवग्रहश्च नाऽनध्यवसाय एकोपयोगान्तर्भूतत्वलक्षणयोग्यतया तत्राध्यवसायसम्बन्धात्, अतिमत्तमूच्छितानामेव ज्ञानस्य योग्यतयाऽप्यध्यवसाय मस्पृशतोऽनध्यवसायत्वाभ्युपगमाद्, आह च - "ह सज्झमोग्गहाई-णं संसयाइत्तणं ॥ ३१४ || ” [इह साध्यमवग्रहादीनां संशयादित्वम् ] यद्यपीयं वस्तुस्थितिस्तथाप्यभ्युपगम्योच्यतेन निश्रितादयोऽज्ञानं ज्ञानं यत्संशयादयः ॥ वस्त्वेकदेशग्राहित्वं, समानं निश्चयेऽपि नः ॥ १६ ॥ संशयादयोऽपि ज्ञानमेव वस्त्वेकदेशगमकत्वाद्, इह हि घटादिकं वस्तु मृन्मयत्वाद्यर्थपर्यायैर्घटकुम्भकलशादिवचनपर्यायैः परव्यावृत्तिपर्यायैवानन्तधर्माशकं न तु निरंशं, तस्य चैकैकदेशपरिच्छेदं संशयादयोऽपि कुर्वन्त्येवेति तेऽपि ज्ञानमेव, अथ समस्तवस्तुग्राह्येव ज्ञानं न तु तदेकदेशग्राहकमिति चेत्, तर्हि निर्णयोऽपि ज्ञानं न स्याद्, गौरयमित्याद्याकारस्य तस्य
For Print And Personal Use Only
Acharya Shal Kalassagarsun Gyanmandir
॥ तृतीयः
तरङ्गः ॥ मतिज्ञानप्ररूपण प्रसङ्गे तत्र परोक्तारेका परि हारेण वस्तुव्यवस्थापनम् ॥
॥ ६७ ॥