SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ S a kanda Acharya ShatkadassigaisanGyanmantire सविवरण भीशाना प्रकरणम् ॥ ॥१३॥ " एतो चिय ते सव्वे, भवन्ति भिन्ना य व समकालं ॥ न बइक्कमो य तेसिं, ण अन्नहा नेयसन्भावो ॥२९७॥" [इत एव ते सर्वे भवन्ति भिन्नाश्च नैव समकालं ॥ न व्यतिक्रमश्च तेषां, नान्यथा ज्ञेयसद्भावः] ॥७॥ नन्वभ्यस्ते पुरुषेऽयं पुरुष इति प्रथममेव निर्णयः समुन्मीलति, अनुभूते च संस्कारोबोधात्प्रथममेव स पुरुष इति स्मृतिरुल्लसत्य नुभूयते च झटित्येवायं पुरुषो निरणायि. झटित्येव चैनमस्मार्षमिति च, तथा च कथमन्यतराभावे न वस्तुभावज्ञानम् ॥ आह च-"अब्भत्थेऽवाओ चिय, कत्थइ लक्खिज्जइ इमो पुरिसो ॥ अण्णत्थ धारण चिय, पुरोवलद्धे इमं तं ति ॥२९८॥"[अभ्यस्तेऽपाय एव क्वचिल्लक्ष्यतेऽसौ पुरुषः ।। अन्यत्र धारणैव पुरोपलब्धे इदं तदिति ॥] अत्रोच्यते अभ्यस्ते निर्णयस्मृत्यो-लेक्ष्यः सौम्येण न क्रमः॥ पद्मपत्रशतच्छेदे, यथा वाऽन्यत्र बुद्धिषु ॥ ८॥ उक्तापायस्मृत्योरवग्रहेहादिष्वीहादेः कालसौम्यादलक्षणेऽप्युक्तक्रमस्य प्रमाणसिद्धत्वान्न तत्र तदपलापः कर्तुं शक्थः, न हि पद्मपत्रशतच्छेदे सत्यपि कालभेदे तदलक्षणेन तदभावो नाम, न वा दीर्घशुष्कशष्कुलीभक्षणे तद्रूपदर्शनतज्जनितशब्दश्रवणतद्गन्धाघ्राणतद्रसास्वादनतत्स्पर्शोपलब्धीनां योगपद्याभिमानेऽपि कारणक्रमनियतस्तत्क्रमो प्रमाणसिद्धोऽपि नास्तीति वक्तुं शक्यते, एकदैकोपयोगस्वभावत्वान्मनसः सर्वेन्द्रियेषु तदसम्बन्धादाशुसञ्चारित्वेनैव तेनाशुकार्यजननात्, तथा च पारमर्ष-"जो मणे देवासुरमणुआणं, तंसि तंसि समयंसिति ॥" ननु भवतां मनसः शरीरव्यापित्वेन सर्वदा सर्वेन्द्रियसंयोगाधुगपदनेकज्ञानोत्पनिर्दुर्वारा तदणुत्वाभ्युपगम एवेन्द्रियेषु तत्संयोगक्रमेण ज्ञानक्रमसम्भवादिति चेत्, न, अणुत्वाभ्युपगमेऽपि तस्य रसनेन्द्रियसंयोगकाले स्वसंयोगस्य दुनिंवारत्वाद् युगपदुभयज्ञानोत्पतेरनिवार्यत्वात्, अदृष्टवैचित्र्यमहिम्नैव तद्वारणे च चित्तोपयोगक्रमादेव ज्ञानक्रम तृतीयः तरङ्गः॥ मतिज्ञानप्रसङ्गे अवहा|दिक्रम हेतु प्रदर्शनं तत्र चाभ्यस्ते कमाभावशंका परिहारश्च ॥ Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy