SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सविवरणं भीज्ञाना र्णवप्रकरणम् ॥ ॥ ५१ ॥ www.ketafirth.org न्यरूपमेवैकसामयिकत्वेन विशेष ग्रहणासमर्थोऽर्थावग्रहो गृह्णाति, एवमुक्ते पर आह- यद्येवं व्याख्यायते भवद्भिः तहिं यन्नन्द्यध्ययन सूत्रे प्रोक्तं " तेणं गहिये सदेत्ति" उपलक्षणत्वादित्थं सम्पूर्ण द्रष्टव्यम् - " से जहा नामए केइ पुरिसे अव्वतं स सुणेञ्जा तेणं सद्देति उन्गहिए, न उण जाणइ के वेस सहाइति” 'तं किह णु त्ति' तदेतत्कथमविरोधेन नीयते, उपदर्शितनन्दि सूत्रे तन प्रतिपत्राऽर्थावग्रहेण शब्दोऽवगृहीत इति प्रतिपाद्यते भवद्भिस्तु शब्दाद्युल्लेखरहितं सामान्यमवगृह्णातीत्युच्यत इति विरोधः स्पष्ट एवेति भावः ॥ २५२ ॥ अत्रोत्तरमाह सद्दे त्ति भइ वत्ता, तम्मत्तं वा न सहबुद्धीए ॥ जह होइ सद्दबुद्धी, तोऽवाओ चैव सो होज्जा ॥ २५३ ॥ व्याख्या - शब्दस्तेनाव गृहीत इति यदुक्तं तत्र शब्द इति वक्ता प्रज्ञापकः सूत्रकारो वा भणति प्रतिपादयति अथवा तन्मात्र शब्दमात्रं रूपरसादिविशेषव्यावृत्त्याऽनवधारितत्वाच्छन्दतयाऽनिश्चितं गृह्णातीति एतावतांशेन शब्दस्तेनावगृहीत इत्युच्यते, न पुनः शब्दबुद्धया, शब्दोऽयमित्यध्यवसायेन तच्छब्दवस्तु तेनावगृहीतं, शब्दोल्लेखस्यान्तर्मुहूर्तिकत्वात्, अर्थावग्रहस्य स्वेकसामयिकत्वादसम्भव इति भावः, यदि भवति शब्दबुद्धिरर्थावग्रहे शब्दनिश्वयस्स्यात्, तदा, अपाय एवासौ भवेत्, न त्वर्थावग्रहः, निश्चयस्यापायरूपत्वात् एवं सत्यर्थावग्रहयोरभाव एव स्यात्, न चैवं दृष्टमभ्युपगम्यते वा ॥ २५३ ॥ ननु प्रथमसमय एव शब्दोऽयमिति ज्ञानमर्थावग्रहः, ततः माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते न तु खरकर्कशत्वादयः शार्ङ्गधर्मा इति विमर्शबुद्धिरीहा तस्माच्छाह एवायं शब्द इत्यपाय इत्येवमभ्युपगमेनावग्रहेहयोरभावप्रसङ्गः ' तेणं सदेति उग्गहिए' इति यथाश्रुतार्थक एवोपपद्यते 'नो चेव णं जाणइ ' इत्यादिरप्यविरोधः, इत्येतत्परोक्तमन्द्य सूरिदूषयति For Private And Personal Use Only Acharya Shei Kailassagarsun Gyanmandir (योजितःपा ठः) मतिनि रूपणे अर्थावग्रहविपयनिरूपणं तत्रपरकृत विरोधाश कारि हारश्च ॥ ॥ ५१ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy