SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थी विश्रामः स्य निराकरणं कुमतकुट्टनादव सेयम् । अनुचितं तीर्थंकर मातृपूजननमस्करणादिनिषेधनं श्रावकाणां । सोधर्मेन्द्रषट्पञ्चाशद्दिक्कुमारिकादिभिस्तीर्थकर मातुः कृतनमस्कारादिश्रवणात् इतिद्वितीयो - त्सूत्रस्य निराकरणम् । अनुचितं प्रत्याख्याने घनतरं व्युत्सृजामीति भणनम् । अन्त्यभणनेन सर्वत्र लब्धत्वात् पूर्वाचार्याणां तथा सम्मतत्वाच्च । इति तृतीयोत्सूत्रस्य निराकरणम् । अनुचितमाचार्य परम्पराऽऽगतशान्तिकस्य निषेधनं । समवसरणेपि क्षुद्रोपद्रवशान्तिकरबलिसमागमस्य श्रवणात् । इति चतुर्थोत्सूत्रस्य निराकरणम् ||४०|| ८३ इतिश्री गुरुतत्त्वप्रदीपे उत्सूत्र कन्दकुद्दालापरपर्याये राकामतनिरासो नाम चतुर्थविश्रामः । इति गुरुतत्त्वप्रदीपे उत्सूत्र कन्दकुद्दालापरपर्याये चतुर्थविश्रामस्य विवरणम् । पञ्चमो विश्रामः । नाम्ना खरतरैमास - कल्प: छिन्नः प्ररूपितः । पश्यद्भिरपश्यद्भि - रहो ! उत्सूत्र साहसम् ॥ १॥ व्याख्या - नाम्ना, न क्रियया खरतरैः क्रियामाश्रित्य शिथिलैरित्यर्थः । मासकल्पः छिन्नो व्युच्छित्ति गतः प्ररूपितः । तपोवद्भिश्चारित्रिभिः क्रियमाणं मासकल्पं पश्यद्भिरप्यपश्यद्भिः । अहो ! महदुत्सूत्र साहसममीषां नित्यवासलम्पटानाम् ॥ १॥ : जिनपूजा न नारीणां नाऽरीणामिव वार्यते । येस्तेषामन्तरायस्य फलं वक्तुं प्रभुः प्रभुः ॥२॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy