________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
८२
व्याख्या-अत्र-अस्मिन् जिनशासने आचार्य मन्त्रो वर्तमानसिद्धान्ते अदृष्टोऽपि सूत्रतयाऽभ्युपगतः, तथा यतिप्रतिष्ठाऽप्यभ्युपगन्तव्या। तयोः छिन्नसूत्रे उक्तत्वात् । तथा अलीकशतैरपि निजोत्सूत्रं स्थापयितुमशक्यमिति चेतसि जानन्त आयासभग्नाश्च कुमाक्षिका 'अस्माभिरिति परीष्ट'मित्युत्तरं विदधति, तेषां प्रत्युत्तरं विधीयते-त्वत्परीष्टं-तव परिज्ञानं, न च प्रमाणं, किन्तु युक्तियुक्तं व व: प्रमाणं । स्वस्मिन् स्वस्मिन् परीष्टे सति पापवानपापवांश्च समग्रोऽप्ययं जनः प्रमाणपदवीमधिरोहति । ततो विनष्टा कृत्याकृत्य विचारणा । अतः सङधपरम्परापरीष्टमेव प्रमाणमित्यमीभिरङ्गीकृतान्युत्सूत्राणि सर्वाण्यस्मिन् शास्त्रेऽनुक्तान्यप्रमाणान्यभूवन् । कियतां तु तेषामपि निर्लोठनाय युक्तिमात्रमुपदर्शाते-त्रिभुवनगुरुबिम्बपुरतो न युक्ता स्थापना स्थापनाऽऽचार्यस्य । यतस्तीर्थकरे सर्वपदभणनात् । ततस्तद्विम्बेऽपि सर्वपदस्थापना कथं नाम न मन्यते ? । उक्तं च व्यवहारभाष्ये
आयरिअग्गहणेणं, तित्थयरो इत्थ होइ गहिओ अ । किं न भवइ आयरिओ, आयारं उवइसंतो अ ॥१॥ निदरिसणमित्थ जह खंदएण पुट्ठो अ गोयमो भयवं ।
केण तुहं सिट्ठति धम्मायरिएण पच्चाह ।।२।। विशेषावश्यकेप्युक्तम्
‘स जिणो जिणाइसयओ सो चेव गुरु गुरूवएसाओ।
करणाइ विणयणाओ सो चेव मओ उवज्झाओ' ।।१।। त्ति । आचाराङ्गचूर्णावप्युक्तं-'आयरिआ तित्थयरा' । इत्येकोत्सूत्रनिराकरणम् । प्रतिबिम्बं नव्यदीपतिभिरारात्रिकोत्तारणस्य पञ्चाऽमृतस्नात्र निषेधस्य सप्ततिशतपट्टादौ सर्वबिम्बस्नानिषेध
For Private And Personal Use Only