________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
स्वस्वशास्त्राभ्यसनाय षण्मासान् ददौ। ततः षण्मासान्ते वाददिनादर्वाक् दिने कदाचित्पराजयः स्यादिति शासनोड्डाहभयाऽऽ कुलितचेतसां निशि निद्रामलभमानानां प्रभूणां शासनदेवता साक्षाद् भूत्वेदमवदत्-यत्प्रभूणां विजयो भविष्यतीति खेदो न विधेयः । ततस्सुखस्वापात् प्रबुद्धाः प्रभाते प्रभवः कश्मीरादिदेशानीतसभासद्भिः शोभितां सिद्धचक्रवर्तिसभापतिसभामाजग्मुः । कुमुदचन्द्रोप्याजगाम । तत्र प्रभुप्रोक्ताशीर्वादकाव्यस्यान्ते 'जीयात्तद् जिनशासनमिति' । कुमुदचन्द्रोक्ताशीर्वादकाव्यस्यान्ते 'वाचस्ततो मुद्रिता' इति च श्रुत्वा सभापतिना सभ्यस्सम कृतदृष्टिसञ्चारेणाऽऽचार्यश्रीदेवसूरेविजयो भविष्यति, कुमुदचन्द्रो मुद्रितवाक् भविष्यतीति चेतसि निणितम् । तत्र तो द्विशतीत्रिशतीमितग्रन्थस्योपन्यासमाक्षेपं च मिथो विदधानौ सभासीनरनिमेषविलोचनै विस्मृतान्यकर्तव्य धमिरध्यानसंलीनश्चित्रलिखितरिव निःप्रकम्पैः स्वर्गादपि मनोरममिदमिति मन्वाननिरीक्षितौ नवनववचनवैचित्र्यादि विवदतोस्तयोर्मध्यात् प्रभुणा 'कोटीकोटि' रितीरिते शब्दे कुमुदचन्द्रेणोक्तं-आचार्य ! कोटीकोटिरिति कूटशब्दः कथं प्रयुज्यते ? । प्रभुराह-कोटीकोटि कोटिकोटि कोटाकोटिरिति शब्दत्रयजनकपाणिनिव्याकरणानभिज्ञेन भवता विमृश्य प्रोच्यताम् । कुमुदचन्द्रोप्यन्तर्गतमनाभोगोऽयं ममेति विचारयन् मुद्रितवचन एवाऽवतस्थौ । ततस्सभ्यरुक्तं-जितं देवाचार्येण । राजा प्राह-न वक्तव्यमिदमस्मत्कुतूहलहालाहलम् । सभ्य आह-देव ! जितकाशिनो वादिनो जयाऽदनि: सभासदां पक्चहत्यारूपं पातकं स्यात् । राजा प्राह-देशान्तरायातस्यास्य मुच्यतां क्षुण्णमिदमेकम् । सभ्य आह-एवमस्तु । राजा प्राहदिगम्बरचूडामणे ! कुमुदचन्द्र ! आचार्यकृतकेवलिभुक्तिस्त्री
For Private And Personal Use Only