________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वितीयो विश्रामः
MAMAKARMA
इदं सभासदामन्त-स्समक्षं सिद्धचक्रिणः ।
देवाचार्येण (वर्येण) वस्त्रेण, पाषण्डं खण्डितं तदा ॥३७॥ ... व्याख्या-स्पष्टः । नवरं कथानकमुच्यते-किलानाशापल्या श्रीमणीयार संवेहि (वसही) पाश्चात्यपौषधशालायामवस्थितेषु श्री अरिष्टनेमिदेवगृहे व्याख्यानं विदधानेषु प्रभुश्रीदेवसूरिषु चतुरशीतिविजितवादिप्रतिमालडकृतहाटककटकमण्डितबामचरणो जालकुद्दालनिश्रेणीसंयुतः सुखासनश्रीकरितुरङगमदासदासेरकपदात्यादिभिर्देशाधिपतिरिव कुमुदचन्द्रनामा दिगम्बरो देशान्तरात् श्रीवासुपूज्यव्याख्यानदैगम्बरदेवगृहे समाजगाम । ततोऽसौ निजोपासकेभ्यः प्रभोर्व्याख्यानलब्धिं निशम्य सञ्जाताभिनिवेशो निजबन्दिजनोक्तकठोरवचनैरकोपं प्रभुं परिज्ञाय प्रभुनमस्कृतये स्वदेवगृहस्याग्रतो गच्छद्वतिनीजनमध्यादेकां वृद्धां व्रतिनी निजप्रेष्येणानाय्याऽऽत्मनः पुरतो बलादनर्तयत् । ततो हे निजगुरुकण्ठशोषपोषक ! शास्त्राभ्यासशासनपराभवसहनोपात्तपातक ! देवसूरे ! तव का दुर्गतिरिति दिगम्बरदेवगृहाऽऽयातवृद्धवतिनीवचनमाकर्ण्य तद्वृत्तान्तं परिज्ञायाऽनन्तसंसारपातभीतचेतसः प्रभुश्री देवसूरयः परित्यक्तान्यकर्तव्यास्सावधाना इदमवदन् हे महासति ! मा खेदं कृथाः। यद्यधुना स्वशक्ति न तोलयामि ततः शासनपराभवपातकं ममैवेति भणित्वा श्री अणहिल्लपुरसम्बन्धिश्री सजघपादानामनुमतिमादाय सिद्धचक्रवर्तिश्रीजयसिंहदेवसभायामावाभ्यां वादो विधेय इति प्रतिज्ञा दिगम्बरेण सममङ्गीचक्रुः । ततः प्रभुपादाः पूजिताऽहत्प्रतिमासन्मुखभवनादिशपुनः श्रीपत्तनमलंचक्रुः । दिगम्बरोप्योत्तीर्णसप्पधिशकुनान्यवधूय श्रीपत्तनमाजगाम । उभावपि तत्र राजसभायां सम्प्राप्ती । राजाप्युभयोरपि
For Private And Personal Use Only