________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्व प्रदीपे
1
कस्मिंश्चित्प्रस्तावेऽभूत् कैः ? कैश्चित्पदेः "सासणदेवयाए करेमि काउस्सग्गं" इत्येवमादिभिः पदैरन्यतरैर्वा पदैरिछन्न सूत्रोक्तैरेव । माग्भूतभवनं कायोत्सर्गस्याऽस्य । यतस्सङ्घपादानां प्रवृत्तिर्नवीनापि नाss मविरोधिनी, किन्त्वागमानुयायिन्येव भवति । तु पुनरधुनावर्तमानकाले, सदा सर्वकालं चैत्यवन्दनाकृतसम्बद्धत्वात्प्रतिदिवसकरणीयत्वेन बभूव । कुतः कारणात् ?, आदेवाऽऽगमनोत्सर्गाशक्त्यादेः । आदेवाऽऽगमनं - शासनदेवताप्राप्ति यावत् या उत्सर्गस्य कायोत्सर्गस्य यशक्तिस्तस्याः । पूर्वं हि वज्रऋषभनाराचसंहननभावेन समुत्पन्ने
कार्ये देवतासमाममे सति कायोत्सर्गं पारयिष्यामीत्यभिग्रहग्रहणशक्तिस्सषपादानामासीत् । साम्प्रतं छेदपृष्टसंहननभावेन तथाविवशक्तेरभावादादिशब्दात्कालस्योपसर्गबहुलत्वान्निरतिशयत्वाच्च
१२२.
कार्यस्य सदव भवनेन अन्यतरस्मात् कुतश्चित्कारणाद्वा कायोत्सर्गस्यास्य सर्वकालकरणमाचीर्णं । सङ्घस्य प्रकटसाहाय्याकरणाद्देवतानामपि कालवैषम्येन प्रकटसाहाय्यकर्तव्याप्राप्तेः प्रच्छसाहाय्येन जिनशासनस्यैवंविधप्रवर्त्तनात् । ननु यदि कालवैषम्यं प्रमाणं ततः कालस्य सानुकूलतयैव शासनस्यैवंविधप्रवर्तनात् किं देवता साहाय्येन ? नैवं वाच्यं मिथ्यात्वभावात् । यतो यापि कालादीनां सानुकूलता सापि पुरुषदेवता साहाय्यमन्तरेणाकिञ्चित्क्ररी स्यात् । यदाह-कालसहावो नियई, पुष्वकयं पुरिसकारणेगता ।' मिच्छतं ते चेव उ, समासओ हुति सम्मत्तं ॥ १ ॥ [ सम्मति० ] ॥२१॥ असौ सङघकृतेस्सूत्र सङ्घ सूत्रकृतोर्यतः ।
1
स्वयं भले त्यादौन, सूत्रेप्युक्तं मिथोऽन्तरम् ||२२|| व्याख्या - असौ चतुर्थ: कायोत्सर्गस्सूत्रमागमः परिज्ञेयः । कस्मात ?, सङ्घकृतेः - सङघेन कृतत्वात् यतो यस्मात्कारणात्, सङ्घसूत्रकृतो: सङ्घस्य सूत्रकृतः - सिद्धान्तकारस्य च मिथ:
For Private And Personal Use Only