________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
१२०
न तिष्ठेन्न भवेत् । यथा-येन प्रकारेणाधिष्ठायकस्य श्रीशङखेश्वरादिसम्बन्धिनो भवेत् । ततोत्रापि-तीर्थकरादिरहितेपि काले, तैस्सम्यग्दृष्टिभिस्सुरैज॑नं ईदृशं यथादृष्टं वर्तते । अधुनाधिष्ठायकभीतो हि राजाऽमात्यसामन्ताधिकारिकादिजिनशासनस्य प्रतिकूलतां न कुरुते । यत्तु तुर्योत्सर्गानं 'वेयावच्चगराण'मित्यादिकायोत्सर्गकरणं, त्वदीये न वर्तते तत्ते-तव ज्ञातमभिप्रायस्साधुसाधु इत्युपहसे ॥१३॥१४॥ युग्मम् ।
मम मङ्गलमित्यादे-यंबोधिस्सङघदेवतात् । तुर्योत्सर्गेण तत्सिद्धं, शासनस्येति वर्तनम् ॥१५।।
व्याख्या-स्पष्टः। नवरं-" मम मंगलमरिहंता" इत्यादि. गाथा ।।१५।।
स्वमिव स्वयमेवैते, पान्ति चेच्छासनं सुराः ।
कायोत्सर्गाः कृतास्ते ते, तत्कि सुकृतिभिः पुरा?॥१६॥ व्याख्या-चेद-यदि, एते-सुराः, शासनं स्वमिव-आत्मानमिव, स्वयमेव-कायोत्सर्गदानं विनैव, पान्ति-रक्षन्ति, तत्कि पुरा-पूर्व, ते ते सिद्धान्तप्रसिद्धाः कायोत्सर्गाः सुकृतिभिः-यक्षा-गोष्ठामाहिलादिसम्बन्धे सङघेन स्क्स्वकार्यसम्बन्धे महासतीसुभद्राप्रभृतिभिश्च कृताः ॥१६॥
मिथ्यात्वमत्रकान्ते हि, सामग्रयाः कार्यहेतुता ।
ते तदौचित्यसङकेता-वोहन्ते श्रावकादिवत् ।।१७॥ व्याख्या-हिर्यस्मात्कारणादत्र-जिनशासने, सर्वत्रकान्तेएकान्तपक्षे सति मिथ्यात्वं भवति । 'सामग्रयाः क र्यहेतुता' सामग्री विना कार्य किमपि न निष्पद्यते । अत्र स्ववासनयव सम्यग्दृष्टयो देवाः शासनकार्यं कुर्वन्तीति मननमित्येकान्तपक्षः ।
For Private And Personal Use Only