________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो विश्रामः
NARurvivon
इयं गाथा सामाचारी, आदिशब्दादन्यापि सामाचारी यथा त्वया त्यक्ता । तथा यदि सङघेनापि त्यज्यते । ततस्तदा तीर्थच्छेदो भवेत् । यतोऽशठाऽम्बिकाकृतत्वादियं सामाचारी ततो। यदि सामाचारी भणित्वा इमां गाथां सङघो नापठिष्यत् तदा तीर्थस्योज्जयन्तगिरेः छेदो-विनाशोऽभविष्यत् । दिगम्बराणां स्वीकारात् । तथा अन्यदपि चोलपट्टपरिधानादिकां सामाचारी भणित्वा यदि सङघो नाङ्गीकरोति तदा तीर्थस्य-सङघस्य च्छेदो भवति । तदनङ्गीकारे निर्वहणाशक्तः इत्येतत् तवाप्यनुभवसिद्धं । पुनस्तथापि स्वाभिनिवेशं यन्न मुञ्चसि । ततस्त्वं त्रिस्तुतिकः शासनच्छेदहेतुत्वेनास्पृश्योवक्तव्योऽदृष्टव्योसि । उज्जयन्ततीर्थप्रबन्धः कथानकादवसेयः। तस्य वृद्धसम्प्रदायःगजपुरनगरात धननामा श्रेष्ठी देवालयसङघालङकृतः श्रीरैवतकमहातर्थे समाजगाम । तत्र च भगवद्बिम्बस्य पूजां चकार । इतश्च महाराष्ट्रमण्डनमलयपुरागतबोटिकभक्तवरुणश्रेष्ठिना आभरणविभूषितं विभुं निरीक्ष्य कोपारुणचक्षुषा 'निम्रन्थोप्ययं भगवान् सग्रन्थः श्वेतपटभक्तैः कृतः' इति वदता च प्रक्षिप्ता भगवतः पूजा । ततो धनवरुणौ परस्परस्पर्द्धमानौ गिरिनगराभिधपुरे नृपाऽन्तिकमागतो। तत्र च तेन दुःखेन दुःखितस्य निशायां निद्रामलभमानस्य धनस्य श्रेष्ठिन: शासनदेवता भणत्येवं-धर्मिष्ठ श्रेष्ठिन् ! स्वमनसि मनागपि मा कार्षीर्दु :खमिदम् । यतश्वैत्यवन्दनामध्ये 'उज्जिन्तसेल' इत्यादि गाथां प्रक्षिप्य ध्रुवं जयं नृपसभायां तव दास्यामि । ततः सकलसङघसहितो धनश्रेष्ठी सम्यगदृष्टि देवतानां कायोत्सर्ग कृत्वा प्रहृष्टः सन् समागतो नृपान्तिकं, वरुणोऽपि । भणति च धनो-यदि वस्त्राभरणादिपूजां वयं कुर्मः, ततः किमेष तस्या विध्वंसनं कुरुते?। वरुणोप्याह-स्वतीर्थे
For Private And Personal Use Only