________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
११०
वचनात् सङघकृतस्याप्याज्ञायुक्तत्वाऽऽपत्तेः। अत एव सङघकृतस्याऽऽगमत्वाभवनेन सङघोऽपि न भवेत् । सङघस्य मिथ्यादृष्टित्वप्रसङ्गादिति सङघव्यवच्छेदः स्यात्, ततोऽसमञ्जसमेतत् । न कदाचिदिदं भूतं भवति भविष्यति । यत् सङघव्यतिरिक्तेनानेन जगता भवितव्यम् । तस्माद् यत् किञ्चित् सङघन कृतं, स आगम एवेति बलादापन्नम् । अधुना-वर्तमानकाले, क्रमाऽऽगतस्सर्वसङघानुगतक्रमेण य आगतस्स सङघो भवति । यतो व्यवच्छिन्ने सङघे सङघस्याभावात् सङघक्रमोऽपि न स्यात् ततस्तदा यस्तीर्थकरेण स्थापितस्स सङघो भवति । अन्यथा-अधुना क्रमागतसङघस्यासङघत्वे, तीर्थस्य-सङ्घस्याऽन्तरं-विवरं स्यात् । नच सिद्धान्ते सम्प्रतिकालमाश्रित्य तीर्थस्याऽन्तरमुक्तम् । न च सम्प्रति तीर्थाऽन्तरस्य लक्षणमस्मिन् क्षेत्रे दृश्यते । तीर्थविवरे हि'धर्म' इत्यक्षरद्वयस्याश्रवणात् नव्यतीर्थकरेण तीर्थस्य करणाच्च । न चैतदवेति क्रमाऽऽगत एव सङघोऽधुना सिद्धः।
यदाह-'जंबहीवेणं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं तित्थं केवइयं कालं अणुसज्जिसइ ? । गो०-जंबुदीवे दीवे भारहे वासे इमीसे ओसप्पिणीए मम तित्थं एगवीसं वाससहस्साइं अणुसज्जिसइ ॥१॥
त्यजन्नाचरणां रोषात्, तत् त्यक्त्वाऽऽगममागमिन् ! ।
सा हि सङ्घकृता सूत्रेऽस्तीत्याज्ञाऽऽचरणापि च ॥२॥ व्याख्या-तत्-तस्मात् कारणात्, अहो आगमिन् ! त्वं आगमं त्यक्त्वा, किं कुर्वन् ? रोषात्-कोपादाचरणां त्यजन्, आचरणात्यागेन त्वया आगमोऽपि त्यक्तः। कथं ? इत्याह-हि यस्मात् कारणात् सा आचरणा सङघकृता, सङघकृतस्य आगमत्व
For Private And Personal Use Only