________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'कतधिया' पण्डितेषूत्तमानां विद्वत्मुक्तबुद्धय इति भारतात् / 'कुलजनप्रभवस्य' महाकुलोत्पबकुलवधूसमूहस्य, स्मेति विसर्गलोपोऽव्ययं वा॥४॥ किं वर्णयाम तव रूपवौर्यचरितानि वाचामगोचरा इत्यर्थः॥५॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः / श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नतास्म परिपालय देवि! विश्वम् // 4 // कि वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि। किं चाहवेषु चरितानि तवामृतानि सर्वेषु देव्यसुरदेवगणादिकेषु // 5 // हेतुः समस्तजगतां विगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपारा। सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्त्वमाद्या // 6 // दोषैः बुद्धिमान्धादिभिः। अंशभूतं तवेति शेषः पादोऽस्य विश्वाभूत्तानीति श्रुतेः, अव्याकता नामरूपव्याक्रियातः पौर्वकालिका अतएवाद्या.॥4॥ For Private and Personal Use Only