________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. मार्कण्डेय इति भागुरिं प्रतीति शेष इति केचित् / क्वचित्पुस्तकेषु तु, तपस्यन्तं महात्मानं मार्कण्डेय महामुनि, व्यासशिथो महातेजा जैमिनिः पर्यपृच्छत। मार्कण्डेय महाप्राज्ञ सर्वशास्त्रविशारद / ओं श्रीगणेशाय नमः / ओं नमश्चण्डिकायै / अस्य श्रौप्रथमचरित्रस्य ब्रह्मा ऋषिः महाकाली देवता गायत्रीछन्दः नन्दाशक्तिः रक्तदन्तिकाबीजं अग्निस्तत्त्वं महाकालीप्रीत्यर्थे जपे विनियोगः // मार्कण्डेय उवाच। सावर्णिः सूर्य्यतनयो यो मनुः कथ्यतेऽष्टमः / निशामय तदुत्पत्ति विस्तरागदतो मम // 1 // महामायानुभावेन यथा मन्वन्तराधिपः। स बभूव महाभागः सावर्णिस्तनयो रवैः // 2 // खारोचिषेऽन्तरे पूर्व चैववंशसमुद्भवः / सुरथो नाम राजाभूत् समस्ते क्षितिमण्ड ले // 3 // श्रोतुमिच्छाम्यशेषेण देवीमाहात्मामुत्तममित्याद्या पूर्वपीठिका दृश्यते। सावर्णिरिति / अष्टमः स्वायम्भुव खारोचिषोत्तमतामसरवतचाक्षुषवैवस्वतादिनाम्नां चतुर्दशानां मध्ये, विस्तरात् ग्रन्थबाहुल्येन // 1 // 2 // 3 // For Private and Personal Use Only