________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) नमस्त रुद्रमन्यव उतो त इषवे नमः बाहुभ्यामुतते नमः / यजुर्माध्यं मं० 10 16 (2) यदिदं किञ्च जगसर्व प्राण एजति निःसृत महद्भयं वज्रमुद्यतं य एतद विदुरमृतास्ते भवन्ति इति काठके। अस्यार्थः इदं सर्व यत्किञ्चिज्जगज्जातं परमात्मनो निःसृतं प्राणे "चिदात्मति” प्रेरके सत्येव एजते कम्पते पतिमिव स्त्रिय इत्यादिना च महाभयजनकत्वेनैव कोपस्य साफल्योक्तेस्तादृश एव कोपे चडिधातोर्मुख्य हत्या प्रवृत्तेस्तद्दशादेव नमस्ते रुद्रमन्यव (1) इत्यादिना प्रथमं मन्यव एव नमस्कारदर्शनाद्वीपास्माहातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इत्यादिश्रुत्या वायादिभयजनककोपस्यापि परब्रह्मलिङ्गत्वमक्षतमेव, अतएव महदयं वजमुद्यतमिति (2) श्रुतौ वचपदेन ब्रह्मैव उच्यते, मायुधविशेषो भयजनकत्वलिङ्गादित्युक्तमुत्तरमीमांसायां (3) कम्पनादित्यधिकरणे; तस्माच्छब्दात पंयोगलक्षणे डीषि चण्डीति पदनिष्पत्तिः / तत्स्वरूपं चोक्त रत्नत्रयपरीक्षायां दीक्षितः। नित्य निर्दोषमन्ध निरतिशयसुखं ब्रह्मचैतन्यमेकं, धर्मो धर्मीति भेदहितयमिति पृथग्भूय मायावशेन / धम्मस्तत्रानुभूतिः सकलविषयिणी सर्वकार्यानुकूला, शक्तिवेच्छादिरूपा चेष्टत इति यावत् तच्च कम्पमहेतुप्राणशब्दवाच्य वन' ( वज्रवत् ) उद्यतं किञ्चिम्महदयं (भयकारणम् ) अस्ति, ये एतदविदुस्ते अमृताः मुक्ता भवन्तीत्यर्थः / / (3) कम्पनात् / उत्तरमीमांसायाम् / अ० 1 / पा० 3 / सू० 1 For Private and Personal Use Only