________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | इत्युक्त्वा तानि पुष्पाणि,कृत्रिमाण्यपि यावता // निधत्ते तावता तान्यकृत्रिमाण्येव जज्ञिरे॥ गुण०/ दृष्ट्वा परिमलाढ्यानि, तानि तं राक्षसो जगौ॥ अहो पुण्यप्रभावस्ते,ह्यहो ते बुद्धिरुज्वला चरित्र // 6 // | अहं तुष्टोऽस्मि याचस्व,वांछितं ते ददाम्यहम् // सोऽवादीनगरं शून्यं, सकलं वास्यतामिदम्।। तत्पुरं वासयामास, स्थापयामास तं प्रभुम् // तवृत्तं ज्ञापयामास, तत्पितुश्च स राक्षसः 201 पित्रा स्वमंत्रिणं प्रेष्याकारितो लेखपूर्वकम् / / राज्यस्य सूत्रणां कृत्वा, कुमारःस्वपुरं ययौ // पुरं प्रविश्य सोत्साहं, पितृपादाननाम सः॥आलिंग्य जनकःपुत्रं, पप्रच्छ सकलां कथाम्॥ * अन्यदा तत्र संप्राप्ताः, श्रीसिंहव्रतसूरयः॥तान्नंतुं ससुतो भूपो, ययौ भक्तिभरोदधुरः 204 || श्रुत्वोपदेशं पप्रच्छ, पुत्रभाग्यस्य कारणम् / मुनिः पूर्वभवं प्रोचे, नगरे हस्तिनापुरे 205 || श्रेष्ठिनो धनदत्तस्य, धननामासुतोऽभवत्॥ जिनपूजामुना चक्रे, बांधवैः सह संमदात् 206 जिनपूजाप्रभावेण, राज्यं लब्धं महाद्भुतम् ।।वर्णिकाणां विशेषेण, यसलं तच्च कथ्यते॥ एप कृत्रिमपुष्पाणि, राक्षसाय तदा न्यधात् // अकृत्रिमाणि जातानि, वर्णकस्य विशेषतः॥ ॥६वा * सुभूमचक्रिणः स्थानं, नृणां पुण्याढ्यभूपते // चक्रित्वं कुलिशित्वं च, प्रपद्येत हि पुण्यतः२०९ / For Private and Personal Use Only