________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र | श्रीसत्यपुरे ( साचोरग्रामे ) समजनीति, यथाऽऽह भगवानयमेव सूरिराड् ग्रंथस्याऽस्य / गुण० प्रशस्तौ " चतुरशीत्यधिकेषु समाचतु-र्दशसु तेषु गतेषु च विक्रमात् / __ अयमभूज्जिनपूजनसत्कथा-समुदयः स करोत्विह मंगलम् / / श्रीवर्धमानजिनभवन-भूषिते रचित एष सत्यपुरे / ग्रंथः श्रीमदुपाध्याय-धर्मनंदनविशिष्टसांनिध्यात्”॥ अस्मिँश्च ग्रंथे स्नात्रादिसप्तदशप्रकारैरर्हत्पूजनतः किमदृष्टं समापद्यते, तथाचैवं परिपूज्य कैभव्यपुरुषैस्तत्संपादितमित्येतच्छ्रीगुणवर्मकथानुसंधानपूर्वकं तस्य भूपालस्य / सप्तदशपुत्राणां कथाद्वारा चित्ताकर्षकभाषया निर्दिश्यते / चरित्रमिदं श्रीविजयनीति सूरीश्वरशिष्यरत्ने; पंन्यासदानविजयैरेव प्रथमतो मुद्रितमुपलब्धम्, तस्य च प्रायः प्रतिस्थलमशुद्धत्वेन पुनर्मुद्रणमर्हतीदमित्याकलय्य, तथैवाऽशुध्धावस्थायामपि समाजे प्रायः / सर्वत्र तत्प्रसिद्धयभावं च पर्यालोच्य तैरेव महाशयैस्तत्संशोधनकार्ये न्ययुज्यताऽयं जनः। // 4 // For Private and Personal Use Only