________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -इति न्यायाद् विगणय्य प्रमाणभूतं सुतरां सज्जानि भवंति तदनुसरणे बालानां गुण चेतांसि / एवं चेदं गुणवर्मचरित्रमपि सामान्यबुद्धिमतां वालजीवानामतिशयेनोपयोगि चरित्र // 3 // सद् धर्मपथस्य मुक्तिमार्गस्य च प्रदर्शकमेवेति निर्विवादमस्याऽत्युत्तमत्वम् / ग्रंथस्याऽस्य | कर्तारोऽचलगच्छेशाः श्रीमाणिक्यसुंदरसूरय एवेति प्रतिसर्गमस्मिन् ग्रंथे स्वनामनिर्देशं / कृत्वा तैरेव निवेदितप्रायम् / अपरं चैतैः सूखिररेतद्ग्रंथवर्जमन्येऽपि माणिक्यांक-चतुः पो-शुकराजकथा-पृथ्वीचंद्रचरित्रादयो ग्रंथाः प्राणीयंतेति तैरेवैतद्ग्रंथप्रशस्तावुल्लिखिते। नैतेनाऽनुष्टुभा विज्ञायते " माणिक्यांकश्चतुःपर्वा शुकराजकथा तथा / पृथ्वीचंद्रचरित्रं च ग्रंथा एतेऽस्य बांधवाः” // इति शोचनीयमेतदेव यदत्रभवंतः सूविर्याः कदा कतमं प्रदेशं स्वकीयपवित्रजनुषा / समलंकृतवंत इति नैव ज्ञायते, किंत्वेतावन्मात्र ज्ञातुं शक्यते यद् ग्रंथस्याऽस्य रचना // 3 // विक्रमादारभ्य चतुरशीत्यधिकेषु चतुर्दशशतसंवत्सरेषु गतेषु भगवन्महावीरचैत्याऽलंकृते / For Private and Personal Use Only