________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 2 // कथाभिः परिणतत्वेन मोक्षसाधनतामुपयाति सर्वेषां साधककोटिप्रविष्टानां मुमुक्षुजनानाम्।। गुण न च श्रुताऽऽगमपर्यायैः प्रसिद्धानां सूत्रवृत्तिचूर्णिनियुक्तिप्रकरणादिप्राचीनतमग्रंथनि- चा - वहानां मोक्षसाधनतया मुक्तिमार्गदर्शकत्वेन वा विद्यमानत्वमत्युच्चतरकक्षायां च सर्वा दृतत्वं वर्वत्येवेति किमीदृशैश्चरित्रादिग्रंथैरिति वाच्यम्; समग्रशास्त्राऽतिशायित्वेन जगति प्रथितानां गूढरहस्यैः पूर्णानां तेषां महाग्रंथानां ज्ञानस्य केषांचित्तीव्रतरशेमुषीमतामभ्या सकानामेव संभवात्, नेतरेषां सामान्यमतिमतां बालानाम्; तेषां तु धर्मतत्वं प्रकटतया / प्रतिपादयन्ति सोपानावलिबत् क्रमशः स्थितिमुच्चां प्रापयन्ति तेषु च महाग्रंथेषु संस्का15 रापादनपूर्वकं सुखावगाहनां कारयन्तीदृश्चरित्रादीन्येव विशेषत उपयोगितामावहति / / / किंच एतादृशां चरित्रग्रंथानां पठनपाठनश्रवणमननादिभिः पूर्वेषां प्रातःस्मरणीयपुरुष धौरेयाणां चरितादीनि बालानां स्वच्छादर्शनिभेषु हृदयेषु प्रतिबिंबतामायांति, येन च / तेषां पूज्यनराणामनुष्ठानादि- " यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः / स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते " // // 2 // For Private and Personal Use Only