________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - राज्यार्द्धदाने विप्राय, विलंबो न भवेत्तव // कन्या कुतस्तु दातव्या, तस्या यद्धर्तते न सा गुण० सचिंते राज्ञि कोऽप्यूचे, राज्ञी ते विजयास्ति या॥श्यामा नाम्नी सुता तस्याः, सैव तस्मै प्रदीयते चरित्र. / 131/- मंत्री प्रोचे त्वया रम्यमुक्तं सा चेन्न दास्यति // ततःकोऽपि बलात्कारो, भविता किं तया सहा ततो राजा स्ययं गत्वा, तामाचख्यौ विचक्षणः॥ प्रदीयतां निजा पुत्री, तस्मै विप्राय वल्लभ सा रुष्यंती नृपं प्रोचे, वरं कूपे जलेऽनले // वरं व्याघ्रमुखे पुत्री, क्षिपे नास्मै ददे पुनः // / सचिवास्तां प्रतिप्राहुराज्ञा राज्ञो विधीयते॥ अभीष्टान्यप्यन्यानि, स्वात्मतो वल्लभानि न।। त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् // ग्रामं जनपदस्याथै, स्वात्मार्थे पृथिवीं त्यजेत् / | अपूर्णे दोहदे देवी, मृत्युं याति यशोमती // तस्यां मृतायां गर्भश्च, निश्चितं स विनश्यति / / ततः परं नृपस्यापि, नित्यं दुखार्त्तचेतसः // अरम्यं भावि चेत्तर्हि, कन्यायाः किं करिष्यसि / / ततो विमृश्यतां पुत्रीमस्मै देहि द्विजन्मने // राजापि प्रीणितस्तुभ्यं, दास्यते बहुमान्यतामा ततः सोवाच यत्कार्य, कथ्यते समये मया। स्वामिना तद्विधातव्यमिति मे प्रतिपद्यताम् // 131 // तेन प्रपन्ने तदत्ता, श्यामा श्यामाननाभवत्॥तामालोक्य नृपो दध्यावितो व्याघ्र इतस्तटी। For Private and Personal Use Only