________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | शिक्षयिस्वा सुतां देव्याः, सखीं चैकां नरेश्वरः।। प्रेषयामास गर्तायाः, संनिधौ वासरात्यये // गुण सुखेन मध्येग तां, निवेश्य प्रथमं सखी।आयांतं गंधराजंच, दृष्ट्वा पूत्कारमातनोत् // चरित्र |१२०भोलोका धावत क्षिप्रं, गंधराज त्वरं भज // गर्तायां पतिता बाला, कृष्यतां म्रियतेऽन्यथा | आकर्ण्य गंधराजस्तत्, कृपापूरितमानसः॥ धावित्वा दक्षिणं हस्तं, तामाक्रष्टुमदात्तदा / / / / करेण दक्षिणेनेयं, गृहीता यावतातदा // गतो दुर्गधतादोषस्तेनाकृष्य बहिष्कृता // बहिर्गता सा तत्पाणिं, मुमुचे मोचितापि न // शुभलग्ने गृहीतोऽयं, न मया मुच्यते करः / तत्क्षणं मिलिता लोकाः, परेऽपि स्वजना अपि // भूपतिस्तत्पिता चापि, सर्वेऽप्येवं बभाषिरे इयं बाला विशालाक्षी, वरं त्वामेव वांच्छति // ततो विवाहं मन्यस्व, काठिन्यं नोचितं तव / इत्यर्थितोऽसौ भूपेन, जनैस्तैः स्वजनैरपि॥ प्रशस्तांगीमुपायंस्त, तां महोत्सवपूर्वकम् // / तत्पाणिमोचने तस्मै, राज्यं राजा निजं ददौ / समं वरवधूभ्यां च, गुरुपादानवंदता॥१५०॥ अप्राक्षीच प्रभा कस्मात्पुत्र्या दुर्गधताभवत // प्रभावो गंधराजस्य, करे केन च कर्मणा / / 120/ | सूरिःप्राह पुरा हेमपुरे श्रेष्ठी शिवोऽभवत् / / कमलाविमलानाम्न्यो, द्वैभार्ये तस्य बंधुरे // For Private and Personal Use Only