________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः षोडशवर्षेषु, व्यतीतेषु नृपोऽन्यदा // प्राप्तपूरा नदीं द्रष्टुं, ययौ कौतुकपूरितः // 10 // गुण आगच्छंती जले दृष्ट्वा, मंजूषां भूपतिस्ततः। आकृष्योद्घाटयामास, दृष्टा काचिदिहांगना चरित्र [117|| शयाना निंबपत्रेषु, मीलिताक्षी विचेतना // सर्पण दष्टा विज्ञाता, भूभुजा सांगलक्षणैः // मणिना बाहुरक्षस्य, तत्क्षणं निर्विषीकता। आनिन्ये सा गृहं राझ्या, मान्या लावण्यतोऽभवत न कस्या अपि देव्या मे, पुत्रः संप्रति वर्तते॥ तदिमां परिणेप्यामि, सुतार्थ शुभलक्षणाम् / / / इति ध्यात्वा नृपस्तस्याः पाणिग्रहणहेतवे // गणकैर्गणयामास, लग्नं शुद्धं विशेषतः // | इतश्च तत्र संप्राप्ताः श्रीपुण्यप्रभसूरयः // तया च पट्टदेव्या तान्, साकं नंतुं नृपो ययौ // | वंदित्वा तान्नृपोऽवादीदुपदेशः प्रदीयताम् // ते प्रोचुरुपदेशैः किं, पुरतस्ते प्रजापते // असंबद्धमिदं तेषां वाक्यं श्रुत्वा नृपो जगौ॥ कः प्रजापतिरत्रास्ति, ते प्रोचुःसत्वमेव हि // नृपेण कथमित्युक्ते, प्रोचुस्ते दक्षिणे स्थिता // एषा कन्या सलावण्या, ह्यंगजा तव भूपते। जन्मन्येतां सुदुर्गधां, तत्यजुर्दासिका वने // क्रमेण कर्मयोगेन, तस्या दुर्गधता गता // ||117/ , भारंडपक्षिणा नीता, देशं मालवनामकम् ॥आरामे कापि तेनासौ, जीवंतीति समुज्झिता॥ For Private and Personal Use Only