________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 -44 LOT श्रीदत्तो धनदत्तस्य, सुतस्तत्कुक्षिमागतः॥ समये स तयासूतः, पिता चक्रे महोत्सवम् // गुण अस्य प्रायः सुगंधोऽस्ति, कायः कमलवकिल // गंधराज इतिप्रीत्या, तस्य नाम ददौ पिता चरित्र / 114 कलाकलापकौशल्यशाली शालीनमानमः // लसल्लावण्यलीलावांस्तारं तारुण्य माप सः // | / अन्येयुः सहितो मित्रैः क्रीडार्थ स ययौ वनम् ॥सयौवनैर्वृतो लीलातल्येव वेष्टितः // तले तरोरशोकस्य, वीक्ष्य च प्रीतिकारकम् // मुनि नत्वा निविष्टोऽसौ, पुरतस्तस्य भक्तिभाक् / प्रभो वयसि तारुण्ये, कुतः संयममग्रहीः॥ इत्युक्ते गंधराजेन, मुनिः प्रोचे निशम्यताम् // वत्सदेशेऽस्ति विख्याता, कौशांबी नामतः पुरी // श्रेष्ठी च विजयस्तत्र, पवित्र पुण्यकर्मणा / विजयश्रीरिति ख्याता, प्रिया तस्य क्रियान्विता // तयोः पद्माकरः पुत्रः, पद्माकर इवामलः || ॐ पद्मश्रीरिति नाम्नास्य, वधूर्विधुसमानना॥ यां विना सैष शिश्राय, स्वप्नेऽपिन परां स्त्रियम् || P एकांते कांतया साकं, तयासौ कांतयानिशम् // नानाक्रीडाभिरक्रीडद्वनेषु भवनेषु च // / अन्येारुत्थिता प्रातमत्तेवभ्रांतलोचना // यत्तज्जजल्प सा भूमौ, लुलोठ च रुरोद च // 14 // क्षणं गति क्षणं हास्यं, क्षणं नृत्यं चकार सा // न चकार परं लज्जां, न वस्त्रस्यापि संवरम् / / For Private and Personal Use Only