________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir G / सोऽवादीनगर, नागपुरमेतन्मनोहरम् / / अत्र क्षेमंकरो राजा, बभूव क्षेमकारकः।।२०७॥ गुण० तस्य लीलावती कांता, निरपत्यावदुःखिता // सखिभिः सहितान्येयुः, नागानां भवनं गता चरित्र // 98 // तयोपयाचितं तेभ्यो, यदि पुत्रो भविष्यति॥ तदा दिनत्रयं पूजां, तत्चम्यां करिष्यते // जातोऽस्या दैवयोगन, ततः पुत्रः प्रियंकरः // नागैर्दत्त इतिख्यातेर्नागदत्ताभिधोऽभवत् // नागानां विहिता पूजा, लीलावत्या ततः परम् / / वर्षे वर्षे पुरेऽमुष्मिन् , जायते सा दिनत्रयमा 1 ताते परासौ संजाते, नागदत्तोऽभवन्नृपः॥ सांप्रतं सा समायाता, वर्तते नागपंचमी // * आरामिको यः पुष्पाणि, नागानां भवनं विना॥ अन्यत्र दास्यते तस्य, राजा दंडं करिष्यति / / श्रेष्ठी वा व्यवहारी वा, मंत्री वान्योऽपि यःक्वचित् / / अपि देवार्चनं कर्तु,कर्ता कुसुमसंग्रहम् / / / सर्वस्वं तस्य हत्वासौ, राजा दंडं करिष्यति // इत्येवं जायमानोऽयं, श्रूयते पटहध्वनिः // लक्ष्मीचंद्र इति श्रुत्वा, दथ्यौ पुष्पगृहं विना // निद्रा नैति मम क्यापि, कथं कार्य दिनत्रयम्। * अतीते यामिनीयामे, सचिंताचांतचेतसा॥ तले सुष्वाप न प्राप, प्रमीलालेशमप्यसौ॥ // 9 // चिंतया परितः पश्यन् , पाणिभ्यां पुष्पमंदिरम् ।।जातमेतत्स्वयं दृष्ट्वा हृष्टो निद्रामथाप सः / / -MARRHOID 40 For Private and Personal Use Only