________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुण | भूपतिः कारयामास, सप्तवारं स्वयंवरम्॥ परंन तस्याः संजज्ञे, वर कोऽपि विचिंतितः॥१४९॥ है। PI अन्यदा तां गवाक्षस्थां, चंद्रचूडो हरत्खगः // याति यातीति जल्पाके वीक्ष्यमाणे जनेऽखिले चरित्र // 93 // न भूभृन्न भटश्चापि, नाभूकोऽपि पराक्रमी॥आकाशचारिणा साकं, भूचराणां कियबलम्॥ तत्पिताहरणं तस्या, वीक्ष्य चित्ते विषण्णवान्।। चिंतयामास संसारे, धिधिर मोहविटंबना // B कस्य पुत्राः कलत्राणि, सुहृदाः कस्य वल्लभाः। दैवाधीनं जगत्सर्व, न प्रभुः कोऽपि वर्तते // / मयि सत्यप्यसूरेग, चौरेण तनुजा हता॥ असार एष संसारस्त्याज्य एव ततो मया॥१५४॥ / इति ध्यात्वा हृदा पुत्रं, स्थापयित्वा निजे पदे // गृहीतसंयमः प्राप्तावधिज्ञानोऽहमेव सः // कुमारस्तं मुनिं प्रोचे,स्वप्ने यावीक्षिता मया॥ सा सैव किंन सान्यावा, मुनिरूचे च सैव सा / विद्यादेवतयादर्शि, यस्तस्याः स्वप्नमध्यगः। स नरः खेचरोऽन्यो वा, मुनिरूचे त्वमेव सः // P विद्यादेवतया तस्यै, तुभ्यं चापि परस्परम् // रूपे प्रदर्शिते द्वे द्वे, योग्ययोगविधित्सया || * कुमारःप्रीतिभाक् प्रोचे, द्वितीयस्य मुनेरपि॥ वैराग्यकारणं बहि, श्रोतृपीयुषपारणम्॥१५९॥ // 9 // साधुःप्रोवाच वैताढये, गिरी गगनवल्लभे / पुरेऽभूदनचूडाख्यः, प्रख्यातःखेचराग्रणीः॥१६०॥ For Private and Personal Use Only