________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. २१]
-गृह्यपरिशिष्टे ।
३४६
प्रायश्चित्तानि भवन्ति आप्यायस्व समेतु त इति स्थालीपाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति सोमाय स्वाहा नक्षत्राधिपतये स्वाहा शीतपाणये स्वाहा ईश्वराय स्वाहा सर्वोत्पातोपशमनाय स्वा हेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १९ ॥
स परमन्वावर्त्ततेऽथं यदास्य महिष्यागाविकमानुपाश्चाष्ट्राविक्षुरादि च प्रस्तूयन्ते हीनाङ्गान्यधिकाङ्गानि विकृतानि रूपाणि जायन्त इत्येवमादीनि तान्येतानि सर्वाणि रुद्रदैवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति इमा रुद्राय स्थिरधन्वने गिर इति स्थाली पाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति रुद्राय स्वाहा उमापतये स्वाहा चिशूलपाणये स्वाहा ईश्वराय स्वाहा सर्वोत्पातशमनाय स्वाहेति महाव्याहृतिभिश्व हुत्वा शन्तातीयं जपेत् ॥ २०॥
स सर्वदिशान्वावर्त्ततेथ यदास्यायुक्तानि यानानि प्रवर्त्तन्ते देवतायतनानि कम्पन्ति देवता प्रतिमा हसन्ति गायन्ति नृत्यन्ति खिद्यन्ति भिद्यन्ति रुदन्त्युनमीलयन्ति निमीलयन्ति प्रतियान्ति नद्यस्कन्धमादित्यो दृश्यते विदले च परिवेषो दृश्यते केतुकुन्तमुपानच्छत्रं वज्रदन्तमुसलानि प्रज्वलन्तीत्यश्वानां वारिभिरवरङ्गाः क्षरन्ति हतानि कर्मणि करिक्रन्त
For Private and Personal Use Only