________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाश्वलायनीय
[.५]
प्रणिपत्य देवं प्रार्थयेत्। स्वागतं देवदेवेश विश्वरूप नमोस्तुते। शुद्धेपि त्वदधिष्ठाने शुद्धं कर्मसहस्वतामित्यथ देवाधिष्ठानं शुद्धेन घृतेनाभ्यंग्य यवगोधूमचूर्णरुद्दयाषणोदकेन सापयित्वा सीतलजलेन संत्राप्य पीठान्तरेवस्थाप्य दिव्यधूपेन धूपयित्वा पुष्पैः सम्पूज्य नवोत्तमेन वाससा वेष्टयित्वा परमान्नेन बलिन्दद्यादथ देवमभ्यर्च्य गजाश्वारण्यवराहोत्खातवल्मीकपर्वतसङ्गमहदराजद्दाराग्निहोचगोष्ठचतुष्पथषभशृङ्गस्थानानीतमृदा बादशकृत्वः सम्यक् शेध्य जलेन प्रक्षाल्य क्षीरक्षकषायैः पञ्चाशदोषधीः कषायेन तीर्थजलेन पञ्चामृतेन पञ्चगव्येन रत्नोदकेन फलोदकेन पुष्योदकेन शृङ्गोदकेन शुद्धोदकेन श्रीसूक्तपवमानेन पुरुषसूक्तादिमन्त्रान् पठन संस्थाप्य पीठान्तरे निवेश्याभिवस्त्रेति वस्त्रयुग्मेनावेष्ट्याक्षतगन्धपुष्यधूपदीपाष्टकमहानैवेद्यैः सम्पूज्य तैजसपात्रं मधुसुवर्णशलाकया गृहीत्वा चित्रं देवानामिति पार्श्वे स्थित्वा सतूर्यघोषमेकैकं समं उन्मीलयेदथादर्शसुवर्णेन भक्ष्यभोज्यानि दर्शयेन्त्र लिङ्गादिषु कुर्यादथाचार्याय धेनुं ब्राह्मणेभ्यश्च यथाशक्ति हिरण्यन्दद्यादथ पुरुषसूक्तेन देवं स्तत्वोत्तिष्ठ ब्रह्मणस्पत इत्युपस्थाय कती विश्वतश्चक्षुरित्युपस्थाय रथे तिष्ठन्निति रथमारोप्य कनिक्रददितिसूक्त पाठः
For Private and Personal Use Only