________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३.१०]
-गृह्यपरिशिष्टे ।
स्वे काले कृत्वा पूर्ण संवत्सरे मृताहे सपिण्डीकरणं कुर्युरेकेऽवाक् सपिण्डीकरणं कृत्वाऽवशिष्टानि स्वकाले प्रत्याब्दिकवत् कुर्युरन्येऽवागपकृष्ट मासिकानि कृत्वा सपिण्डीकरणं कुर्वन्ति तानि च पुनः स्वकाले प्रत्याब्दिकवत् कुर्वन्ति तत्र आद्ये ब्राह्मणभावे अग्नौ जुहुयात् पुरुषतृतये सार्ववर्णिकमन्नमादाय बहिरग्निमुपसमाधाय सव्यं परिसमुह्य पर्यु - क्ष्योदीरतामवर उत्परास इति वक्तेनावर्त्य प्रत्यृचं जुहुयात्प्रेतनाम्ना यमनाम्ना वा स्वादान्तेन पुनरेतब्राह्मणेऽपि जुहुयात् ॥ ८ ॥
३२५
अथैकोद्दिष्टविधिरेक उद्दिश्य एको ब्राह्मण एकमर्घ्यपाचं पाणावेकाहुतिं तदहनिमन्त्रणं न दैवं न धूपदीपो न स्वधा पितृन्नमः शब्देनावाहनं नाभिश्रवणं कृतपच्छाचमाचान्तं ब्राह्मणं परिश्रित्य उदङ्मुख उपवेश्य पार्वणवदाचमनादि कुर्यात् तिलासि मन्त्रेण स्वधया पितॄनिमानित्यूहस्तूष्णों वा तिलावपनं तूष्णीं निवेद्येोक्तवद्दत्वा तत्पाचं न्युजं निधायोक्तवदाच्छादनांतम्भोजनार्थादन्नादुद्धृत्य घृताक्तं कृत्वा ब्राह्मणस्य पाणी दभीनन्तधीय देवदत्त स्वाहेति सहदवदानेनैकामाहुतिं जुहुयात्सर्वहुतमग्नौ प्रास्येदथ तृप्ते भुक्तशेषमात्रेणैतत्ते काश्यपगोत्र देवदत्तेत्येकः
For Private and Personal Use Only