________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१९]
परिशिष्टे ।
नर इति पञ्च मधुमती रक्षन्नमीमदन्तेति श्रावयेदनाचान्तेषु भुक्ताशयानुपलिप्य प्रागग्रान् दर्भानास्तीर्य पृषदाज्य मिश्रेण भुक्तशेषेणैकैकस्य द्वौ दौ पिण्डा दद्यात् पूर्वेण मन्त्रेण नान्दीमुखेभ्यः पितृभ्यः स्वाहेति वा यथालिङ्गमन्यदुदकेनानुमन्त्रणादी च्छन्ति नेह पिण्ड इत्यन्ये सर्पिषि दध्यानयति एवमेतत् पृषदाज्यमाह सम्पन्नमिति वसृजेत्तदेतत् पुंसवनादिष्टपत्यसंस्कारेषु अग्न्याधेयादिषु श्रतेषु च पूर्त्तषु च क्रियते महत्सु पूर्वेद्युस्तदहरल्पेषु तदिदमेके मातृणां पृथक् कुर्वन्त्यथ पितॄणां ततो मातामहानामिति चतयमिच्छन्ति तस्माज्जीवत्पिता सुतसंस्कारेषु मातृमातामहयेाः कुर्यात्तस्याज्जीवत्यां पितृमातामहयेाः कुर्यीत् पित्रोर्जीवतामातामहस्यैव कुर्यात् चिषु जीवत्सु न कुर्यात् त्रिषु जीवत्सु न कुर्यात् ॥ १८ ॥
इत्याश्वलायनग्टह्यपरिशिष्टे द्वितीयोऽध्यायः ।
For Private and Personal Use Only
३१७