________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३. ०४
काश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[ २.११]
द्यावापृथिवीभ्यामुलूखलमुसलयेोरथ निष्कृम्य भूमावप आसिच्य श्वचाण्डालपतितवायसेभ्योऽन्नं भूमौ विकिरेत् ये भूताः प्रचरन्ति दिवा बलिमिच्छन्तो विदुरस्य प्रेष्ठाः तेम्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपति ददात्विति रात्रौ चेन्नक्तं वा वलिमिति ब्रूयादथ प्रक्षालितपादपाणिराचम्य गृहं प्रविशेत्, शान्ता पृथिवी शिवमन्तरिक्षं द्यौनीदेव्यभयो अस्तु शिवा दिशः प्रदिश उद्दिशेो न आपो विद्युतः परिपान्तु विश्वत इति जपित्वा अन्यानि च स्वस्त्ययनानि ततेामनुष्ययज्ञपूर्वकं भुञ्जीत ॥ १० ॥
अथ भोजनविधिरार्द्रपादपाणिराचान्तः शुचौ देशे प्राङ्मुखः प्रत्यङ्मुखेावापविश्य भस्मणा वारिणं वा हस्तमात्रे चतुरस्रमण्डले पाचस्थमन्नं प्रणवव्याहृतिपूर्वया सावित्र्याभ्युक्ष्य स्वादोपितामधेोपितेा इत्यभिमन्त्र्य सत्यं त्वर्तेन परिषिञ्चामीति दिवा परिषिञ्चेद्दतन्त्वा सत्येन परिषिञ्चामीति राचावथ दक्षिणता भुवि भूपतये भुवनपतये भूतानां पतये इति नमान्तैः प्राक्संस्थं प्रत्यक्सस्थं वा बलिं विकीर्य हस्तं प्रक्षाल्य समाहिताऽमृतोपस्तरणमसीत्यपः प्राश्य सव्येन पाणिना पात्रमालभ्य तर्जनीमध्यमाङ्गुष्ठेः प्रामध्यमानामिकाङ्गुष्ठैरपाणाय कनिष्ठिकाना
गाय
For Private and Personal Use Only