________________
Shri Mahavir Jain Aradhana Kendra
२८२
www.kobatirth.org
च्याम्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[१.२०]
अथ पुनराधानमनुगतेऽग्निं शिष्टागारादानीयेाक्तवदुपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्याज्यमुत्पूयायाश्चाद्म इत्येकामाज्याहुतिं हुत्वा यथापूर्व परिचरेदेवमाद्दादशराचादत ऊर्ध्व विवाहगृहप्रवेशहोमाभ्यामेकतन्त्राभ्यामादध्यात् तत्र विवाहाज्याहुतयो लाजाहुतया गृहप्रवेशाज्याहुतया हृदयाज्जनश्च भवति कर्नैव लाजानावपत्येतत्पुनराधानन्नित्यहोममतीत्य मनस्वत्या चतुर्गृहीतं जुहुयादाद्दादशराचादूर्ध्वं पुनराधानमेव कुर्यीत् ॥ १८ ॥
अथानेकभार्यस्य यदि पूर्वगृह्याग्नावेवानन्तरा विवाहः स्यात्तेनैव सा तस्य सह प्रथमया धर्मनिभागिनी भवति, यदि तु लैाकिके परिणये तं पृथक्त्वेन परि
पूर्व की कुर्यात्तौ पृथगुपसमाधाय पूर्वस्मिन् पूर्व - या पत्न्यान्वारब्धोऽग्निमीले पुरोहितमिति वक्तेन प्रत्यृचं हुत्वोपस्थायायन्ते योनि ऋत्विय इति तं समिधमारेराप्य प्रत्यवराहेति द्वितीये वरो ह्याज्यभागान्तं कृत्वोभाभ्यामन्वारब्धोऽग्निमीले जुहुयादग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निना पाहि ना अग्न एकयेति तिसृभिरस्तोदमधिमन्थनमिति च तिसृभिरथैनं परिचरेन्मृतामनेन संस्कृत्यान्यया पुनरादध्यादथ वानिं विभज्य तद्भागेन संस्कु -
For Private and Personal Use Only