SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ आश्वलायनीय [१.१३] स्याः प्रत्यक् दर्भेषु निधाय सर्पिषाभ्यज्य सव्यं पागितलं हृदये न्यस्य सहदवदानेन पाणिना जुहुयात् सोमाय वनस्पतय इत्यैकाहुतिं दिवाचारिभ्यो विश्वेभ्यो देवेभ्य इति सर्वभूतानां विशेषणं प्रजापतेरुक्तिरिष्यते प्रधानबलेरुदक् पुरुषवलिस्तदिदमन्नाभावे तण्डुलादिभिः कुर्यादेके चान्ते च परिसमुच्य पर्युक्षेदेकेनाच तन्त्रमिति पर्युहनाक्षणे अपि न कुर्वन्ति केवलं हुत्वोपतिष्ठन्ते विश्वेदेवाः सर्वे देवा - स्तवत्यमितोदं वैश्वदेवं ॥ १२ ॥ अथ स्वस्तिवाचनम्टद्धिपूर्तषु स्वस्त्ययनं वाचयेदित्याचार्यः ऋहिर्विवाहान्ता अपत्यसंस्काराः प्रतिडोद्यापने पूर्त्त तत्कर्मण आद्यन्तयेाः कुर्याच्छुचिः स्वलङ्कृतो वाचयोत तथाभूते सद्मनि मङ्गलसम्भारभृतियुग्मान् ब्राह्मणान् प्रशस्तानाचार लक्षणसम्पन्नानयीदिभिरभ्यर्च्य दक्षिणया ताषयेदथ प्राङ्मुखाः प्रशस्ता दर्भपाणयस्तिष्ठेयुस्तदक्षिणता वाचयितादमुखः संस्काय वाचयितु दक्षिणपार्श्वमातिष्ठेयुरथ वाचयिता दर्भपाणिरपां पूर्णमुदकुम्भं स्वर्चितं सपल्लवमुखं ष्टत्वा तिष्ठन् समाहिता मनः समाधीयतामिति ब्राह्मणान् ब्रूयात्समाहितमनसस्म इति ते ब्रूयुः प्रसीदन्तु भवन्त इति वाचयिता प्रसन्नास्म इती For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy