________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४. ७.२]
गृह्यसूत्रे ।
अथातः पार्वणे हे काम्य आभ्युदयिक एकोद्दिष्टे
वा ॥ १ ॥
२३३
अथशब्दोऽधिकारार्थः । इत उत्तरं वच्यमाणे विधिः श्राद्धे वेदितव्य इति । श्रतः शब्दो हेत्वर्थः । यस्माच्छ्राद्धान्निःश्रेयसप्राप्तिः मूढैरपि च क्रियते तस्मादक्ष्याम इति । पार्वणमिति श्राद्धनाम । अन्वर्थमंज्ञा चेयं पर्वणि भवं पार्वणमिति । तथाप्येकस्मिन्नेव पर्वणि भवति । श्रमावास्यायां । नोभयोः पर्वणः । कुतः । पिण्ड पिढयज्ञेन सह व्यतिषङ्गदर्शनात् । स्मृतेश्च । विप्रश्चन्द्रक्षयेग्निमानिति मनुः । श्रमावास्यायां पितृभ्य इति गौतमः । पितृनुद्दिश्य यद्दीयते ब्राह्मणेभ्यः श्रद्धया तच्छ्राद्धं । काम्यं श्राद्धं पञ्चम्यां पुत्रकामस्येत्यादि । वृद्धिपूर्त्तनिमित्तमाभ्युदयिकं । एकमेवाद्दिश्य यच्छ्राद्धं श्राद्धमस्मै दद्युः । एकादशाहे एकोद्दिष्टमित्यादि तदेकोद्दिष्टं । धर्मभेदात् पृथगुपदेशः । श्राद्धइत्येतावतैव सिद्धे पार्थणादि ग्रहणं धर्मभेदप्रदर्शनार्थं कर्त्तव्यताविध्यर्थञ्च। धर्मभेदमुपरिष्टाद्वच्यामः ॥ १ ॥
ब्राह्मणान् श्रुतशीलवृत्तसम्पन्नानेकेन वा काले ज्ञापितान् स्नातान् कृतपच्छाचानाचान्तानुदङ्मुखान् पितृवदुपवेश्यैकैकमेकैकस्य हो हो चींस्त्रीन्वा et फलभूयस्त्वं न त्वेवैकं सर्वषां ॥ २ ॥
ब्राह्मणग्रहणं क्षत्रियत्रैश्यादिनिवृत्त्यर्थं । श्रुतं स्वाध्यायः शोखं
2 ।।
For Private and Personal Use Only