________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ६.२]
ग्रह्यसूत्रे।
२२३
तत उत्तर इत्यचा घटादिकपालेन कुम्भमपिधाय ततो गर्तस्यार्थशाप्तं पूरणकरोति यथा कुम्भो न दृश्यते। कर्मान्तरास्तित्वज्ञापनार्थादथशब्दादयमों लब्धः। ततो न वेतं पृष्ठतो नोक्षमाणः प्रत्याव्रजन्ति । ततोऽप उपस्पृश्य स्नात्वेत्यर्थः । ततोस्मिन्नहनि श्राद्धं अस्मै प्रेताय केवलाय दारे कोद्दिष्ट विधानेन ॥ ८ ॥
इति चतुर्थे पञ्चमी कण्डिका ॥ • ॥
गुरुणाभिमृता अन्यतावाऽपक्षीयमाणा अमावास्यायां शान्तिकर्म कुर्वोरन॥१॥
गुरुणा अभिमृताः गुरुर्येषां मृतः अन्यतो वा पुत्रपशाहिरण्यादिभिरपक्षीयमाणाः सन्तोऽमावास्थायां शान्तिकर्मनाम कुर्युः । तत्र मन्त्रवती क्रियां ज्येष्ठः करोति इतरे पासते ।। १ ।।
पुरोदयादग्निं सहभस्मानं सहायतनं दक्षिणा ह. रेयुः क्रव्यादमग्निं प्रहिणोमि दूरमित्यर्द्धर्चन ॥२॥
प्रागादित्योदयादग्निं सहभस्मानमायतनेन सह दक्षिणस्यां
For Private and Personal Use Only