________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४. २.६]
रह्यसूत्रे।
अजां वैकवीम् ॥६॥
अजां वा येन केनचिदेकेन वर्णन सुनां कुर्यात् ॥ ६ ॥
कृष्णामेके ।। ७॥
इच्छन्ति ॥ ७॥
सव्ये बाहू बवानुसङ्कालयन्ति ॥८॥
पशोः सव्ये बाही रज्जु बवा अनु प्रेतस्य पृष्ठतः सकालयन्ति नयन्ति बान्धवाः ॥ ८ ॥
अन्वञ्चाऽमात्या अधानिवीताः प्रत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः॥६॥
गच्छेयुरिति शेषः । प्रेतस्य पृष्ठतोऽमात्या बान्धवा अधोनिवीतं येषान्ते अधोनिवोता अनुपरि वाममः यज्ञोपवीतानि चाधाकृत्वेत्यर्थः। प्रवृत्तशिखाः विमुक्तकेशाः ज्येष्ठप्रथमा इत्युच्यमाने सर्वेषां यो ज्येष्ठः स प्रथमः स्यादितरेषां अनियमः स्यात्। तस्माद्यो यो ज्येष्ठः म म प्रथमा गच्छेत् यो यः कनिष्ठः स स पृष्ठतो गच्छेत् । इत्यानुपूर्वी सिध्यर्थमुभयवचनं। एवंभूता गच्छेयुः ॥ ६ ॥ .
* बाहौ इति मुद्रितपु० समीचीन पाठः ।
2D
For Private and Personal Use Only