________________
Shri Mahavir Jain Aradhana Kendra
[ ४.१.४]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे ।
॥ ॐ ॥
* आहिताग्निचेदुपतपेत्प्राच्यामुदीच्यामपराजितायां वा दिश्युदवस्येत् ॥ १ ॥
श्राहिताग्निश्चेत् व्याधिरूपतपेत् पीडयेत् । तथा सति श्राहिताग्निरग्निभिः सह ग्रामान्निष्क्रम्य प्राच्यामुदीच्यामपराजितायां वा दिशि उदवस्येत् । गत्वा तत्रैव तिष्ठेत् यावदगदो भवति ॥ १ ॥ ग्रामकामा अग्नय इत्युदाहरन्ति ॥ २ ॥
१९५
श्रयो ग्रामकामा इति ब्रह्मवादिनः प्रवदन्ति । तस्मादुदवस्थेत्। ग्रामकामले सत्यपि किमित्युदवस्येदित्याशङ्क्याह ॥ २ ॥ आशंसन्त एनं ग्राममाजिगमिषन्तोगदङ्कुर्युरिति विज्ञायते ॥ ३ ॥
ग्राममागन्तुमिच्छन्तोऽमय एनमाहिताग्निमाशंसन्ते । श्रयमगदो भवेदिति । श्रशंसमानाश्च एनं अगदं अरागं कुर्युः एवं हि श्रूयते । श्रुत्याक ह्यकर्म समुत्पन्न श्रुतिमूलमिति दर्शनार्थः
सर्वत्र ॥ ३ ॥
अगदः सेामेन पशुनेष्ट्येष्ट्वावस्येत् ॥ ४ ॥
अगदः अरोगः । सेामादिभिरिधा ग्रामं प्रविशेत् । श्रथ कः सोमः
* व्याहिताग्निं इति मुद्रितपुस्तके, तन समीचीनं । + प्रातरिति सो० पु० पाठः ।
2 c2
For Private and Personal Use Only