________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३.५.८]
ज्याहुतिवचनं उत्सर्जनेऽप्येतान् वाज्येनैव जुहुयात् नान्नेनेत्येवमर्थम.
परिस्तरणविकल्पस्यासम्भवात् ॥ ४ ॥
ह्यसू ।
१६७
अथ दधिसक्तून् जुहोति ॥ ५ ॥
दधिमिश्रान् सक्तूनित्यर्थः। मन्त्रानाह ।। ५ ।।
अग्निमीडे पुरोहितमित्येका ॥ ६ ॥
एकाग्रहणं कुषुम्भकादिवत् हृचनिवृत्त्यर्थम् ॥ ६ ॥ कुषुम्भकस्तदब्रवीत्. आवदंस्त्वं शकुने भद्रमावद. गृणाना जमदग्निना. धामन्ते विश्वम्भुवनमधिश्रितं. गन्ता नो यज्ञं यज्ञियाः सुशमिया न स्वो अरणः प्रचक्ष्व विचवाने याहि मरुत्सखायते. राजञ्छतं हविरिति हृचाः ॥ ७ ॥
एते नव हृचाः ॥ ७ ॥
समानीव आकृतिरित्येका ॥ ८ ॥
एकाग्रहणं दृचानन्तरमियमेवैका न वच्यमाणेत्येवमर्थम् ॥ ८ ॥ तच्छ्यारादृणीमह इत्येका ॥ ८ ॥
श्रत्र चैकाग्रहणं दृचानन्तरमियमेवैका न पूर्वेत्येवमर्थम् ।
For Private and Personal Use Only