________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ५. १]
रद्धा सूत्रे।
१६५
प्रतिपुरुषवचनं पृथक् पृथक् तर्पयेत् इत्येवमर्थम्। पूर्वाकोपवेशनासम्भवेऽपि एवं वा ब्रह्मयज्ञं कुर्यादिति श्रुतिमेवाह ॥ ५ ॥
अथापि ज्ञायते. स यदि तिष्ठन् व्रजन्नासीनः शयाना वा यं यं क्रतुमधोते तेन तेन हास्य क्रतुनेष्टम्भवतीति ॥ ६ ॥ ____ 'न शयानोऽधीयीत नाटम्यां' इत्यादिनिषेधो नित्य स्वाध्यायस्यैव न ब्रह्मयज्ञस्येति श्रुतिमेवाह ॥ ६ ॥
विज्ञायते. तस्य दावनध्यायौ यदात्माऽशुचिर्यदेशः। ॥७॥ ___ तस्य ब्रह्मयज्ञभ्य दावेवानध्यायौ यदात्माऽशुचिः मृतकेन मृतकेन वा मलादिना वा । यदा च देशोऽचिः अमेध्यादिना तत्रोभयत्रैवेत्यर्थः । काल स्त्वस्य श्रुती श्रूयते । 'मध्यन्दिने प्रबलमधीयोत य एवं विद्वान्महारात्र उषस्युदिते च' इति ॥ ७ ॥
इति तृतीये चतुर्थी कण्डिका ॥०॥
अथातोऽध्यायोपाकरणं ॥१॥ अध्ययनमध्यायस्तस्योपाकरणं प्रारम्भा येन कर्मण तदध्यायोपाकरणं। उकोऽर्थः । अतःशब्दो हेत्वर्यः । यस्मा ट्रह्मयजो नित्यः अतोऽध्यायोपाकरणं ब्रूम इति । तस्य कालमाह ॥ १ ॥
* एतत्सूत्रं मू० पु. नास्त पतितमनु मीयते ।
For Private and Personal Use Only