________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५२
[ २. १०.३]
पनादि शिवं वास्त्वित्यन्तं तद्गृहप्रपदनसंज्ञं भवति । किं सिद्धं भवति. मणिकस्थापनात् प्रागेव बोजानि स्थापयित्वा तुष्णीं प्रविशेदिति । अपिच शास्त्रान्तरेण संस्कृतं विशीर्णं वा पुराणं ग्टहं संस्कृत्य प्रविशतो मणिकप्रतिष्ठापनादि सिध्यति ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
बीजवतो गृहान् प्रपद्येत ॥ २ ॥
गृहानिति बहुवचनं श्राप इतिवत् । बोजवतः प्रपद्येतेत्येतावतैव सिद्धे गृहानिति वचनं यत्र गृहं प्रविशति शास्त्रान्तरसंस्कृतं विशीर्णं वा संस्कृत्य तत्रापि एवं प्रविशेदिति मणिकादि बीजवत्प्रपदनान्तं तत्रापि कुर्यादित्यर्थः । तेन पूर्वव्याख्यापि साध्वी ॥ २ ॥
क्षेचं प्रकर्षयेदुत्तरैः प्रोष्ठपदैः फाल्गुनीभी रोहिण्या वा ॥ ३ ॥
फाल्गुनीभिरित्यत्रापि उत्तराभिरित्येवं सम्बध्यते । तेन त्रीणि नक्षत्राणि । नित्यकर्मणां द्रव्यमाध्यत्वात् द्रव्यार्थं क्षेत्रं प्रकर्षयेत् । चिप्रयोगः स्वयंकृषिनिवृत्त्यर्थः । तथा चानापदि गौतम : 'कृषिवाणिज्ये वा स्वयं कृते' इति । मनुरपि । [ अ ० ४ । ४ । ] 'ऋताम्टताभ्यां जीवेत्तु मृतेन प्रमृतेन वा' इति ।
[मनु ० ० ४।५ ।] 'प्रमृतं कर्षणं स्मृतम्' इति । श्रक्षसृक्ते चेयमेव वृत्तिरुक्ता. 'अक्षैमा दीव्य कृषिमित् कृषस्व' इति । प्रतिग्रहादयश्चापत्कल्पाः । त्रिषु नक्षत्रेषु कृषिं प्रारभेत । इदं च प्रारम्भदिवसे कुर्यादित्याह ॥ ३ ॥
For Private and Personal Use Only