________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्याश्वलायनीये
(२.१.४]
श्रावण्यां पौर्णमास्यां श्रवणाकर्म ॥१॥ कर्त्तव्यमिति शेषः । सर्पबलिश्चेत्यध्याहार्य। *श्रवणे युक्ता श्रावणे। यदा पुनः पौर्णमासी श्रवणे न युक्ता तदापि कर्त्तव्यमेव। पौर्णमामीविशेषलक्षणार्थत्वानक्षत्रस्य । श्रवणकर्मति कर्मनामधेयम् ॥ १ ॥
अक्षतसक्तूनां नवङ्कलशं पूरयित्वा दर्वीञ्च बलिहरणों नवे शिक्ये निदधाति ॥२॥
अक्षता नाम यवाः तैः कृताः सतवः । दर्वी वैकश्तो मुगाकृतिः। बलिर्यया दा हियते मा बलि हरणो। एतदुभयं नवे शिक्ये निदधाति सर्पबल्यर्थं ॥ २ ॥
अथ श्रवणकर्मीच्यते। अक्षतधानाः कृत्वा सर्पिघाऽद्धी अनक्ति ॥३॥
यवैर्धानाः कृत्वा अमंस्कृतेन घृतेनानक्ति श्रद्धा धानाः पात्रान्तरे कृत्वा. अन्याश्चाद्धा धाना नानक्ति। एतावदहि कर्त्तव्यं ॥ ३ ॥
___ अस्तमिते स्थालीपाकं श्रपयित्वैककपालञ्च पुरोडाशं. अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यूचं हुत्वा पाणिनैककपालं. अच्युताय भौमाय स्वाहेति ॥४॥ ___ * श्रवणेन युक्ता श्रावणी। यदा पुनः पौर्णमासी श्रवणेन युज्यते रति यादर्णपाठोऽवश्यम्भाव्ये कनकारहीनतयाऽधः कृतः ।
For Private and Personal Use Only