________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २४. १३]
रह्यसूत्रे।
१०५
सव्यं शूद्राय ॥१०॥ अग्रे प्रयच्छेत् । पश्चाद्दक्षिणं । क्षत्रियवैश्या यदा प्रक्षालयितारी तदा मव्यं वा पूर्व दक्षिणं वा नास्ति नियमः ॥ १० ॥ प्रक्षालितपादोऽर्य्यमञ्जलिना प्रतिगृह्य ॥११॥
प्रक्षालितपादग्रहणमानन्तर्यार्थं । प्रक्षालनानन्तरमर्थमेव ग्टहीयादिति । गन्धमाल्यादिमंयुक्तमुदकमर्थमित्युच्यते ॥ १९॥
अथाचमनीयेनान्वाचामति. अमृतोपस्तरणमसीति ॥१२॥
अथ-शब्दस्त्वानन्तर्यार्थः। अानन्तरमाचमनीयमेवेति। तेन गन्धमाल्यादीनि परिसमाप्ते कर्मणि दातव्यानि। श्राचामतीत्यदकं पिबतीत्यर्थः। अत्र शौचार्थमाचमनं न भवति। कुतः । स्मृतेः. 'मधुपर्के च सोमे च अप्पम प्राणाहुतीषु च । नोच्छिष्टा भवन्ति' इति । उत्तरत्र विधानाच. 'आचान्तोदकाय गां' [ग्ट० १.२ ४.२ ३] इति । एवमेके. तदयुक्तं । कुतः। सोमे अनुच्छिष्टविधानाद्यचाचमनं न प्रतिषेधति तत्र शौचार्थमाचमनं भवतीति गम्यते । आचान्तोदकवचनमन्यार्थं ॥ १२ ॥
मधुपर्कमाहियमाणमीशेत. मित्रस्य त्वा चक्षुषा प्रतीक्ष इति ॥१३॥
मधुपर्कमाहियमाणमानीयमानमीक्षेत मन्त्रेण ॥ १३ ॥ .
For Private and Personal Use Only