SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनीये [१. २३. १५] चन्द्रमास्ते ब्रह्मा स ते ब्रह्मा ॥ ११ ॥ ते-शब्दपाठः प्रतिवचनस्यानुवृत्तिमार्गप्रदर्शनार्थः ॥ ११ ॥ एवमितरे यथादेशं. तन्मामवतु तन्मा विशतु तेन भुक्षिषीयेति च याजयिष्यन् ॥ १२ ॥ जपतीति शेषः। यदा अग्न्याधेये चतुर्ण वरणं भवति तदा याजयितारस्ते न भवन्ति । यत्तु मोमाङ्गं वरणं भवति तत्र याजयितारो भवन्ति. तेन समाङ्गवरण एवायचपो नान्याधेये। तेनायमनित्यः ॥ १२ ॥ याज्यलक्षणमाह। न्यस्तमार्विज्यमकार्यम् ॥१३॥ ऋत्विग्भिर्विवादेन त्यक्तमार्विज्यमकायें ॥ १३ ॥ अहीनस्य नीचदक्षिणस्य ॥ १४ ॥ अल्पदक्षिणस्याहीनस्याविज्यमकायें। ततो ज्ञायते एकाहस्याल्पदक्षिणस्यापि कार्यमिति । विज्ञायते च तस्मादाहुदातव्यैव यज्ञे दक्षिण भवत्यष्यल्पिकापीति ॥ १४ ॥ व्याधितस्यातुरस्य ॥ १५॥ व्याधितो ज्वरादिग्टहीतः। आतुरस्तल्पगतः ॥ १५ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy