SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org & च्याश्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir [१. २३. ०] होत्रकान्’[ग्ट ० १।२३।२] इत्यच होत्रकशब्दो मुख्यवर्जितेषु वर्त्तते. 'होत्रका उपयध्वमितीतरान्' इत्यत्र मुख्यवर्जितेषु होत्रकशब्दस्य दर्शनात् । ततश्च यथा प्रतिप्रस्थाचादिषु वर्त्तते एवं शमित्रादिष्वपि वर्त्तते होत्रकशब्द इति ॥ ४ ॥ सदस्यं सप्तदशं कौषीतकिनः समामनन्ति स कर्मणामुपद्रष्टा भवतीति तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति ॥ ५ ॥ सदसि भवः सदस्यः । सप्तदशग्रहणम्टत्विक्सधर्म भवतीति ज्ञापनार्थं । तेनोपस्थान प्रसर्पणादिसामान्यविहितं सिद्धं । अथवा नियमार्थं । कथमेक एव सदस्यः स्यादिति । शास्त्रान्तरेऽनेके सदस्या दृष्टाः तन्निवृत्त्यर्थं । स च कर्मणामुपद्रष्टा भवतीत्येवं कौषीतकिन आचार्य मन्यन्ते । ऋग्भ्याञ्चायमर्थ उक्तः ॥ ५ ॥ हातारमेव प्रथमं वृणीते ॥ ६ ॥ एवकारोऽवधारणार्थः। होतारमेव न ब्रह्माणमिति । एवं चेत् पूर्वेण विरोधः । न यदा चतुणीं वरणन्तदा ब्रह्मणः प्रथमं वरणं. यदा सर्वेषान्तदा होतुः प्रथमं वरणमिति ॥ ६ ॥ न होता स मे होता होतारं त्वाऽमुं वृण इति होतारं ॥ ७ ॥ अनेन होतारं वृणीते । श्रमुमित्यस्य स्थाने होतुनीम वाच्यं । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy