________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्याश्वलायनीये
[१. २२. ३]
ब्रह्मचार्यस्यपोऽशान कर्म कुरु दिवा मास्वामीराचायाधीनो वेदमधीधेति ॥२॥
इदानी ब्रह्मचार्यसि । अपोऽशान. मूत्रपुरीषादी शास्त्रविहितमाचमनं कुर्वित्यर्थः । कर्म कुरु. यच्छास्त्रविहितं कर्म सन्ध्योपामनादि । दिवा माखाशीरिति दिवाशयनप्रतिवेधः । श्राचार्याधीनो नित्यम्भव। वेदमधीव वेदाध्ययनं कुरु ॥ २ ॥
दादश वर्षाणि वेदब्रह्मचर्यम् ॥३॥ वेदस्य ब्रह्मचर्य वेदब्रह्मचर्य । वेदग्रहणं कथं वेदमात्रस्यायं कालनियमः स्यादिति. मन्त्रब्राह्मणयोर्वेदनामधेयं. तेन महानान्यादीनां बतानामूर्द्ध द्वादशवर्वभ्यस्त्रयः मंवत्सराः स्युः । एवं च कृत्वोपनयनप्रभृति षोडशे वर्षे *गोदानं मिद्धं । वेदग्रहणादयमर्श लब्धः. एवमेके. अन्ये तु जन्मप्रति षोडशे वर्षे गोदानं । महानान्यादीनां च ब्रतानां हादववर्षष्वन्तर्भावमिच्छन्ति. महानाम्यादीनामपि वेदेकदेशत्वादिति। पूर्वस्मिन् पक्षे यदा संवत्सरं बतचर्या तदा सप्तदशे गोदानं स्यात्. तस्मादयमेव पक्ष: श्रेयान् । वेदग्रहणं कथमेकैकस्य वेदस्य द्वादशवर्षाणि ब्रह्मचर्य स्यादिति । तेन दयोश्चतुर्विशतिः. त्रयाणं षत्रिंशत. चतुर्णामष्टाचत्वारिंशत्॥ ३ ॥ ___ * गोदानं। महानाम्यादीनां ब्रतानां हादशवर्षेषु अन्तभावमि. च्छन्ति । महानाम्यादीनामवर्षे गोदानं सिद्धमित्युद्धृतपाठः सो०२ पु।
For Private and Personal Use Only