SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' [१. १४. ३] ग्र ह्यसूत्रे। चतुर्थे गर्भमासे सीमन्तोन्नयनम् ॥ १॥ सीमन्तो यस्मिन् कर्मणि उन्नीयते तत्सीमन्तोन्नयनं चतुर्थे मासि कार्यम् । इदं कर्म न प्रतिगर्भमावर्तते. स्त्रीसंस्कारत्वात्. न त्वयं गर्भसंस्कारः। ‘एवं तं गर्भमाधेहि' इति मन्त्रलिङ्गात्। सत्यं. तथापि नावर्तते. आधारमंस्कारस्य प्राधान्यात्। कुतः प्राधान्यमिति चेत् । सीमन्तोन्नयनमिति समाख्याबलात् अाधारस्य च संस्कृतत्वात्। सकृत् सकृत् संस्कृता यं यं गर्भ प्रसूते स सर्वः संस्कृतो भवेत्. तेनावृत्तिर्न भवतीति सिद्धम् ॥ १ ॥ आपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात् ॥ २॥ शुक्लपक्षे यदा घुमा नक्षत्रेण चन्द्रमा युक्तः स्यात् तदेदं कर्म कार्य। पुंसा नक्षत्रेण पुन्नामधेयेन नक्षत्रेगोत्यर्थः. तिय्यो हस्तः श्रवण इत्यादिना । चन्द्रमा युक्तः स्यादितिवचनं प्रकर्षण युक्त चन्द्रमसि यथा स्यात्। एतदुक्तं भवति । षष्टिघटिकासु मध्ये मध्यमत्रिंशवटिकासु कुर्यात् इति ॥ २॥ अथाग्निमुपसमाधाय पश्चादस्याऽऽनडुहं चास्तीर्य प्राग्ग्रीवमुत्तरलाम तस्मिन्नुपविष्टायां समन्वारब्धायां. दाता ददातु दाशुष इति द्वाभ्यां राकामहमिति For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy