________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
धाश्वलायनीये
[९. १९. १५]
एकादश पशोरवदानानि सर्वाङ्गेभ्योऽवदाय शामित्रे अपयित्वा हृदयं शूले प्रताप्य स्थालीपाकस्याग्रता जुहुयात् ॥ १२॥
पाहणं यानि त्रेतायां एकादशावदानानि पशोः प्रसिद्धानि तानि यथा स्युरित्येवमयं । हृदयं जिला वक्षद्वत्येवमादीनि । सर्वाङ्गग्रहणमेकादशभ्योऽन्यान्यपि यान्यङ्गानि दृष्टानि तेषामपि विकल्येन ग्रहणार्थं । एवमवदाय तानि शामित्रे अपयति। हृदयं शले *प्रोत्य प्रतापयति यथा श्टतं भवति । ततः श्टतान्यभिघार्योदास्य ततः स्थालीपाकस्यैकदेशं पूर्व जुहुयात्. ततोऽवदानानि ॥ १२ ॥
अवदानैवी सह ॥ १३॥ अवदानैर्वा मह स्थालीपाकं जुहोति. न पृथक् । यदा तु पृथक जुहोति तदा खिशकदपि पृथक् कार्यः॥ १३ ॥
एकैकस्यावदानस्य दिईिरवति ॥ १४ ॥ दिग्रहणं देशानियमार्थं । एकैकस्यावदानस्य यस्मिन् कस्मिंश्चिद्देशे विईिरवद्यति। पञ्चावत्तो तु त्रिस्त्रिरवद्यति। उपस्तरणप्रत्यभिधारणे कृत्वा जुहोति ॥ १४ ॥
आतैव हृदयशूलेन चरन्ति ॥१५॥ ॥११॥ खिष्टकृत्सर्वप्रायश्चित्तान्तं कृत्वा वृष्णी हृदयशूलेन चरन्ति ।
* प्रोत्येत्यस्य स्थाने कृत्वेति सं• पु० पाठः ।
For Private and Personal Use Only