SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ श्रीगणेशाय नमः ॥ अथ मासत्राद्धप्रयोगः । अथ काथुमीयानां गोभिलीयश्राद्धकल्पसूत्रकर्मप्रदीपगोभिलोक्तपिण्डपित्यज्ञान्वष्टक्यप्रयोगान् संवीक्ष्य मासश्राइप्रयोगो विरच्यते । तस्य कालमाहसबकारः ॥ श्राइममावास्यायां पितृभ्यो दद्यात्, पञ्चमीप्रमृति वाऽपरपक्षस्य यदहरुपपद्यते” इति। अस्यार्थः । दश ऽथवाऽपरपक्षस्य पञ्चम्यादितिथिषु यस्मिन्नहनि सर्वमुपपद्यते सम्पद्यते तस्मिन्नहनि (पितृभ्यः ) पिपितामहप्रपितामहेभ्यः, मातुः पिपितामहप्रपितामहेभ्यश्च, श्राद्धं कुर्यात् । “मातामहानाञ्चैव” इत्यत्रो. त्तरत्र सबकृता वक्ष्यमाणत्वात । एवञ्चोक्तषड़देवताकं मासश्राद्धमितियावत । श्राइञ्च दिविधं, पार्वणमेकोद्दिष्टञ्चेति। त्रिपुरुषोद्देशेन क्रियमाणं पार्वणमथवा पर्व सम्बन्धि पार्बणम् ॥ एकपुरुषोद्देशेन क्रियमाणमेकोदिष्टम् ॥ सर्वषामपि श्राद्वानां मासश्राई प्रकृतिः, तत्रैव सर्वाङ्गोपदेशात्, “दृष्टीनां दर्शौर्णमासवत्” । छन्दोगानधिकृत्य-"पिण्डपितृयज्ञवटुपचाराः, पिण्डपिठ्यन्नवद्धत्वा हुतशेषं पाणिषु दद्यात्” इति श्राइकल्पसूत्रात पिण्डपित्यजतन्त्रमत्र ग्राह्यम् । अतो प्याग्नावेव चरुश्रपणम । तेनाग्नावेव होम: । अनग्निमतो "ब्राह्मणभोज For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy